________________
. AMAMMYnY...
युद्धं विमृज्य चंपेशवलं जाग्रदवास्थित । निद्रा ह्यभक्तभार्याणामिव वैरवतां कुतः ॥ २३८ ॥ चेटकस्य पुनः सैन्ये वीरा वीरजयन्तिकाम् । कुर्वन्तो जयवावित्रवादनेनात्यगुर्निशाम् ॥ २३९ ॥ चंपानायनाभिषिक्तं सेनानीत्येऽपरेऽहनि । महाकालं कालमिव मारयामास चेटकः ॥ २४० ॥ अष्टौ सेनापतीनन्यानपि श्रेणिकनन्दनान् । एकैकमहन्यककस्मिन् पूर्वषचटकोऽवधीत् ।। २४१॥ भातृष्यात्मसमानेषु कालादिषु दशस्वपि । चेटकेन हतेष्वेवं चंपापतिरचिन्तयत् ॥ २४२ ॥ देवतायाः प्रसादेन जेतैकेनापि पत्रिणा | न द्यायचेटको जय्यो मत्यैः कोटिमितैरपि ॥ २४३ ।। प्रभावं चेटकस्याऽमुं मया हा धिगजानता। मथैव निधनं नीता देवाभा भ्रातरो दश ॥ २४४॥ पभूव या गतिस्तेषां भविष्यति ममापि सा । युज्यते नापसतुं च दृष्टभ्रातृयधस्य मे ॥ २४ ॥ तद्देवता समाराध्य तत्मभावाज्जयाम्यरिम् । दिव्यप्रभावो दिव्येन प्रभावेण हि बाध्यते ॥ २४६॥ उपायमिति निश्चित्य कृत्वा च हृदि देवताम् । तस्थावष्टमभक्तेन राजा श्रेणिकनन्दनः ॥ २४७॥ पूर्वजन्मसंगतेन नुन्नौ तत्तपसापि च । शक्रश्च चमरेन्द्रश्च तत्कालं तमुपयतुः ॥ २४८॥ अचाते सौ च देवेन्द्रासुरेन्द्रौ भोः किमिच्छसि ? । सोऽप्यूचे यदि तुष्टौ स्थश्चेटकस्तनिहन्यताम् ॥२४॥ शको भूयोऽप्यभाषिष्टाऽपरं किमपि याच्यताम् । साधर्मिकश्चेटको मे तं निहन्मि न जातुचित ॥ २०॥ तथापि देहरक्षां ते करिष्यामि महीपते ! । यथा न जीयसे तेन सोऽब्रवीदेवमस्त्विति ॥ २१ ॥