SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ तयोः सर्वेऽपि राजानः सद्योऽपि प्रणतिं ययुः । ताभ्यां चासाधि भरतक्षेत्रयाम्यार्धमोजसा ॥ १७१ ॥ शिलां कोटिशिलां दोष्णोत्पाट्य मूर्ध्यातपद्मवत् । प्रथमः पुंडरीकाक्षो धारयामास लीलया ॥ १७२ ॥ विक्रमाक्रान्तभूचक्रः स पोतनपुरं ययौ । अभिषिक्तश्चार्धचक्रिपदे देवैर्नृपैरपि ॥ १७३ ॥ द्रनं दूरतोsपि पृष्टं तत्तदाश्रयत् । रत्नीभूता गायनेषु तमेयुः केऽपि सुस्वराः ॥ १७४ ॥ एकदा तेषु गायत्सु शय्यापाल हरिर्निशि । ऊचे मयि शयाने मी विस्रष्टव्यास्त्वया खलु ॥ १७५ ॥ आमेत्यूचे तपपाल आगानिद्रा व शार्ङ्गिणः । नहीतलुब्धो व्यस्राक्षीद्गायनान् सोऽपि तान्न हि ॥ १७६ ।। तेषु गात्सु चत्तस्थौ विष्णुरूचे च ताल्पिकम् । स्वया विसृष्टाः किं नामी सोऽप्यूचे गीनलो भतः ॥ १७७॥ तच्छ्रुत्वा कुपितो विष्णुः प्रभाते तस्य कर्णयोः । अक्षेपयत्रषु तप्तं शय्या पालो मृत सः ॥ १७८ ॥ त्रिपृष्ठः कर्मणा तेन वेद्यं कर्म न्यकाचयत् । प्रभुत्वादन्यदप्युग्रं कर्माऽचनाद् दुरायति ॥ १७९ ॥ अहिंसादिष्वरित महारम्भपरिग्रहः । चतुरशीत्यब्दलक्षी प्राजापत्योऽत्यवायत् ।। १८० ।। मृत्वा च सप्तमायन्यामुदपद्यत नारकः । तद्वियोगात्मत्रजितोऽवलो मृत्वा शिवं ययौ ॥ १८९ ॥ त्रिपृष्टजीवो नरकादुद्धृत्याऽजनि केसरी । केसर्यपि विपन्नः संञ्चतुर्थं नरकं ययौ ॥ १८२ ॥ सोऽथ तिर्यमनुष्यादिभवान् बभ्राम भूरिशः । लब्ध्वा च मानुषं जन्म शुभं कर्मैकदाऽऽजयत् ॥ १८३ ॥ ततोsपरविदेहेषु मूकायां पुरि भूपतेः । धनंजयस्य धारिण्याः पत्न्याः कुक्षाववातरत् ॥ १८४ ॥ I ॥१५॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy