SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर इत्युक्त्वा पोतनपुरे तो कुमारावुपेयतुः । ग्रामीणास्तेऽपि गत्वाऽऽख्यन् हयग्रीवस्य तत्तथा ॥ १५७ ॥ हयग्रीवोऽपि साशंको जिघांसुर्माययापि तौ । अनुशिष्यादिशद वृत्त प्रजापतिष भति ॥ १५८ ॥ गत्वा स दूतस्तं स्माहोपस्वामि प्रेषयात्मजौ । राज्यं यदनयोः स्वामी प्रदास्यति पृथक् पृथक् ॥ १५९ ।। प्रजापतिर्बभाषेऽहं यास्यामि स्वामिनं स्वयम् । कृतं मम कुमाराभ्यां गताभ्यां तत्र सुन्दर ! ॥ १६० ॥ इतो भूयोऽवदत्पुत्रौ न चेत्त्वं प्रेषयिष्यसि । तत्सब्जीभय युद्धाय मा वादीः कधितं न यत् ॥ १६१॥ इत्युक्तवन्तं तं दृतं तौ कुमारावमर्षणौ । धर्षयित्वा निजपुरान्निरवासयतां क्षणात् ।। १६२ ॥ दृतो गत्वा सवाघख्यो हयग्रीवाय वर्षणम् । हयग्रीवोऽपि कोपेन हुताशन इवाज्वलत् ॥ १६३ ॥ हयग्रीयः ससैन्योऽपि त्रिपृष्ठश्चाचलोऽपि च । युयुत्सवः समभ्येयू रथावर्तमहागिरौ ॥ १६४ ॥ मिथो युयुधिरे सैन्याः पक्षयोरुभयोरपि । सांवर्तिका इवाम्भोदा आस्फलन्तः परस्परम् ॥ १६५॥ क्षीणक्षीणेषु सैन्येषु सैन्ययुद्धं निषिध्य तौ । अश्वग्रीवत्रिपृष्ठश्चायुध्येतां रथिनौ स्वयम् ॥ १६ ॥ मोघीकृतास्त्रोऽश्वग्रीवोऽरिग्रीवोच्छेदलम्पटम् । त्रिपृष्ठायामुचचक्रं हाहाकारिजनेक्षितम् ॥ १६७ ।। त्रिपृष्ठोरःस्थले चक्रं तुम्बेन निपपात तत् । शरभो रभसोभ्रान्त इव पर्वतसानुनि ॥ १६८ ।। वीरप्रष्ठस्त्रिपृष्ठोऽय तेन चक्रेण लीलया । चकर्त हयकंटस्य कंठमभोजनालवत् ॥ १६॥ अचलश्च त्रिपृष्ठश्च प्रथमो हलिशार्जिणौ । इत्याघोषि सुरैव्योंनि पुष्पवृष्टिपुरस्सरम् ॥ १७ ॥ ॥१४||
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy