SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ अहो बहुलशाखत्वमहो पत्रलताऽद्भुना । अहो कुसुमसंपत्तिरहो कुसुमसौरभम् ॥ १८४ ॥ अहो चछायैकातपयमातपत्राभिभावुकम् । अहो विश्रामयोग्यत्वमहो सर्व किमप्यदः ॥ १८५॥ निसर्गरमणीयोऽयं यथा श्रीधाम चंपकः । तथाऽत्र नगरमपि भविष्यति न संशयः ॥ १८६ ॥ चंपकेन श्रियः सत्यंकारेणैवोपशोभितम् । स्थानं पुरीनिवेशाई ते तथाऽऽख्यन्महीभुजे ॥ १८७॥ चंपकस्याभिधानेन चंपेति नगरी नृपः । वेगादकारयत् सिद्धिर्वचसाहि महीभुजाम् ॥ १८८ ।। ततश्च पुर्श पंचायां त्या सध-पास ( महीमिमां श्रेणिकसूर्धातृभिः सहितोऽन्वशात् ॥ १८९ ॥ अब सेचनकारूढौ दिव्यकुंडलमंडितो। दिव्यहारांशुकधरौ भूगनौ स्वर्गिणाविव ॥ १९ ॥ अत्यद्भुतश्रियो हल्लविहल्ली निजदेवरी । दृष्ट्वा पद्मावती दध्यो स्वस्य स्त्रीत्वस्य सन्निभम् ॥ १९१ ॥ हारकुंडलचासोभिर्दिव्यैः सेचनकेन च । विना हि मन्यते राज्यं नेत्रहीनमिवाऽऽननम् ।। १९२ ॥ ततो हल्लविहल्लाभ्यां तान्याहर्तुं कृताग्रहा। यभाण कूणिकं राज्ञी कूणिकोऽप्येवमभ्यधात् ॥१९३ ॥ पितृदत्तं वस्त्वनयो हर्तु युज्यते मम । विशषेण प्रसादार्हाविमौ ताते दिवं गते ॥ १९४ ॥ तस्याश्चात्याग्रहाद्राजा मेने हारादियाचनम् । स्त्रीग्रहः खलु मत्कोटग्रहादपि विशिष्यते ॥ १९५ ॥ अन्यस्मिंश्च दिने हल्लविहल्लो पृथिवीपतिः। ययाचे त्यत्तसौभ्रात्रस्तद्धारादिचतुष्टयम् ॥ १९६ ॥ प्रमाणमादेश इति प्रतिपद्य गृहं गतौ । आ(अ)मंत्रयतां तावित्थं बुद्धिमन्तावुभावपि ॥ १९७ ।। ३६३६
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy