SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ M. COMC * पांडुप्रभृतिभिरपि या त्यक्ता मृगया न हि । स स्वयं त्यक्ष्यति जनः सर्वोऽपि च तदाज्ञया ॥ ६ ॥ हिंसानिषेधके तस्मिन दूरेऽस्तु मृगयाऽदिकम् । अपि मत्कुणयूकोदि नान्त्यजोऽपि हमिष्यति ॥ ६६ ॥ तस्मिन्निषिद्धपापौवरण्ये मृगजातयः। सदाप्यविनरोमन्था भाविन्यो गोष्ठधेनुवत् ॥ ६७ ॥ जलचरस्थलचरखचराणां स देहिनाम् । रक्षिष्यति सदा मारि शासने पाकशासनः ॥ २८ ॥ ये चाऽऽजन्मापि मांसादास्ते मांसस्य कथामपि । दुःस्वप्नमिव तस्याज्ञावशान्नेष्यति विस्मृतिम् ॥६॥ दशाहने परित्यक्तं यत्पुरा श्रावकैरपि । तन्मद्यमनवद्यात्मा स सर्वत्र निरोत्स्यति ॥ ७॥ स तथा मद्यसन्धानं निरोत्स्यति महीतले । न यथा मद्यभाण्डानि घटयिष्यति चयपि ।। ७१ ॥ मद्यपानां सदा मयन्यसनक्षीणसंपदाम् । तदाज्ञात्यक्तमद्यानां प्रभविष्यन्ति संपदः ।। ७२ ॥ मलादिभिरपि क्षमापर्वातं त्यक्तं न यत्पुरा । तस्य स्ववैरिण इष नामाप्युन्मूलयिष्यति ॥ ७३ ॥ पारापतपणक्रीडाकुक्कुटायोधनान्यपि | न भविष्यन्ति मेविन्यां तस्योदयिनि शासने ॥ ७४ ॥ स प्रायेण प्रतिग्राममपि निःसीमवैभवः। करिष्यति महीमेतां जिनायतनमण्डिताम् ॥ ७ ॥ प्रतिग्राम प्रनिपुरमासमुद्रं महीतले । रथयात्रोत्सव सोऽहत्प्रतिमानां करिष्यति ॥ ७६ ।। दायं दायं द्रषिणानि विरचय्यानृणं जगत् । अंकयिष्यति मेदिन्यां स संवत्सरमात्मनः ॥ ७७॥ १"दीन D. + MMAMA An५४
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy