SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ स कौबेरीमातुरुष्कमैन्द्रीमात्रिदशापगम् | याम्यामाविन्ध्यमावार्धि पश्चिमां साधयिष्यति ।। ५२॥ अन्यदा वज्रशाखायां मुनिचन्द्रकुलोद्भवम् । आचार्य हेमचन्द्रं स द्रक्ष्यति क्षितिनायकः ।। ५३ ॥ तदर्शनात्प्रमुदितः केकीवाऽम्बुददर्शनात् । तं मुनि वन्दितुं नित्यं स भद्रात्मा त्वरिष्यते ॥ ५४॥ तस्य सूरेर्जिनचैत्ये कुर्वतो धर्मदेशनाम् । राजा सश्रावकामात्यो वन्दनाय गमिष्यति ॥ ५५ ॥ तत्र दवं नमस्कृत्य स तस्वमविदन्नपि। वन्दिष्यते तमाचार्य भावशुद्धेन घेतसा ॥ १६ ॥ स श्रुत्वा तन्मुखात्पीत्या विशुद्धां धर्मदेशनाम् । अणुव्रतानि सम्यक्त्वपूर्वकाणि प्रपत्स्यते ॥५७॥ स प्राप्तयोधो भविता श्रावकाचारपारगः । आस्थानेऽपि स्थितो धर्मगोष्टया स्य रमयिष्यति ॥ ५८ ॥ अन्नशाकफलादीनां नियमांश्च विशेषतः ! आदागने एयर लगायेण जाणावर्यकृत् ॥ ५ ॥ साधारणस्त्रीन परं स सुधीर्वर्जयिष्यति । धर्मपत्रीरपि ब्रह्म चरितुं योधयिष्यति ॥ ६० ॥ मुनस्तस्योपदेशेन जीवाजीवादितत्त्ववित् । आचार्य इव सोऽन्येषामपि बोधि प्रदास्यति ॥ ६१ ॥ येऽर्हद्धर्मद्विषः केपि पांडरोहद्विजादयः । तेऽपि तस्याऽऽज्ञया गर्भश्रावफा इव भाविनः ॥ ६२ ॥ अजितष चैत्येषु गुरुष्वप्रणतेषु च । न भोक्ष्यते स धर्मज्ञः प्रपन्नश्रावकवतः॥ १३ ॥ अपुत्रमृनपुंसां स द्रविणं न ग्रहीष्यति । विवेकस्य फलं होतदतृप्ता स्वविवेकिनः ॥ ६४ ॥ र सुविसुद्धेन .. ॥ २ 'रागद्वि CL. रांगादि D. ॥ ३ 'तयः L. D.|| ४"विका ८. L. ||
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy