SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ आर्यभूमेः शिरोरत्नं कल्याणानां निकेतनम् । एकातपम्राहद्धर्म तद्धि तीर्थ भविष्यति ॥ ३८ ॥ चैत्येषु रनमयोऽर्हत्प्रतिमास्तत्र निर्मलाः । नन्दीश्वरादिप्रतिमाकथां नेष्यन्ति सत्यताम् ॥ ३९ ॥ भासुरस्वर्णकलशश्रेण्यलंकृतमौलिभिः । रोचिष्यते च तचैत्यैर्विश्रान्ततपनैरिव ॥ ४० ॥ श्रमणोपासकस्तत्र प्रायेण सकलो जनः । कृतातिथिसंविभागों भोजनाय यतिष्यते ॥४१॥ परसंपद्यनीालुः संतुष्टच स्वसंपदा । पात्रेषु दानशीलच तत्र लोको भविष्यति ॥ ४२ ॥ श्राद्धाश्च धनिनस्तत्रालकायामिव गुटकाः । वस्यन्ति द्रविणं सप्तक्षेव्यामत्यन्तमार्हताः ॥ ४३ ॥ परस्वपरदारेषु सर्वः कोऽपि पराङ्मुखः । भावी तस्मिन् पुरे लोकः सुषमाकालभरिव ॥ ४४ ॥ अस्मन्निर्वाणतो वर्षशतान्यभय षोडश । नवष्टिश्च यास्यन्ति यदा तत्र पुरे तदा ॥ ४ ॥ कुमारपालो भूपालचौलुक्यकुलचन्द्रमाः। भविष्यति महाबाहुः प्रचण्डाखण्डशासनः ॥ ४६॥ स महात्मा धर्मदानयुद्धधीरः प्रजां निजाम् । ऋद्धिं नेष्यति परमां पितेव परिपालयन् ॥ ४७ ॥ ऋजुरप्यतिचतुरः शान्तोऽप्याज्ञाविवस्पतिः । क्षमावानप्यधृष्यश्च स चिरं श्मामविष्यति ॥ ४८ ॥ स आत्मसंघशं लोकं धर्ममिष्ठं करिष्यति । विद्यापूर्णमुपाध्याय इवान्तवासिनं हितः॥४॥ शरण्यः शरणेथूनां परनारीसहोदरः । प्राणेभ्योऽपि धनेभ्योऽपि स धर्म बहु मंस्यते ॥५०॥ पराक्रमेण धर्मेण दानेन दययाऽऽज्ञया । अन्यैश्च पुरुषगुणैः सोऽद्वितीयो भविष्यति ॥ ५१ ॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy