SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ सिनपल्लयां च तं नीत्वा तन्नाम्नेष हि देवता । कुंभकारकृतमिति तत्र स्थानं करिष्यति ॥ २४ ॥ पुनरप्यभयोऽपृच्छत् प्रणम्य परमेश्वरम् । उदायनकुमारस्याभीचे का भाविनी गतिः॥ २५॥ स्वाम्याख्यत् केशिने राज्यं प्रदत्तवति वप्तरि । स हि प्रभावतीसूनुरभीविश्चिन्तयिष्यति ॥ २६ ॥ मयि सत्यपि भक्तेऽपि पुत्रे राज्याधिकारिणि । तातोऽदात् कशिने राज्य राज्यर्णमिव धारयन् ॥ २७ ॥ विवेको मत्पितुः कोऽयं भगिनीनन्दनाय यत् । केशिनेऽदाददो राज्यं हन्त काराधिकारिणे ॥ २८ ॥ तातः प्रभम स स्वैरं यदिच्छति करोत तत । केशिनोऽद्य कथं सेवां करिष्ये तत्सुतोऽस्मि हि॥२९॥ इनि पिताऽभिभूतः सोऽभिगमिष्यति कूणिकम् । अभिमानवतां श्रेयान विदेशो हि पराभवे ॥ ३० ॥ अथ मातृष्वसेयेन कूणिकेन सगौरवम् । वीक्ष्यमाणः सदाऽभीचिः सुखं स्थास्यति तत्र च ॥ ३१ ॥ श्रमणोपासकः सम्यग्जीवाजीवादितत्त्ववित् । अभीधिः श्रावकधर्म यथावत् पालयिष्यति ॥ ३२ ।। गृहिधर्म समा बह्वीः पालयनप्यखंडितम् । पराभवं स्मरन् बैरं न स हास्यत्युदायने ॥ ३३ ॥ कृत्वा संलेखनां सम्यक् पाक्षिकानशनेन सः। पितृवैरममालोच्य मृत्वा भाव्यसुरोत्तमः ॥ ३४ ॥ एवं पल्योपमं तत्र परिपात्यायुरात्मनः । महाविदेहपुत्पद्याभीचिजीवः शिवंगमी ॥ ३५ ॥ पृच्छति स्माभयोऽयवं कपिलर्षिप्रतिष्ठिता। प्रकाशमेष्यति कदा प्रतिमा परमेश्वर ॥३६॥ स्वाम्याख्याति स्म सौराष्ट्रलाटगुर्जरसीमनि । क्रमेण नगरं भाथि नाम्नाऽणहिलपाटकम् ॥ ३७॥ १५१
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy