SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ द्वादशः १ + M पितृातुर्मातुलाद्वा सुहृदो वाऽपरादपि । प्रसह्याप्याहरेद्राज्यं तदत्तं को हि मुञ्चति ॥ ११ ॥ तैरेवमुदिनोऽत्यर्थं त्यक्त्वा भक्तिमुदायने । केशी प्रक्ष्यति किं कार्य ? दापयिष्यन्ति ते विषम् ॥ १२ ॥ विषेण संस्कृन्य दधि पशुपालिकयैकया। केशी दापयिता तस्मै परमेयस्य का मतिः १ ॥१३॥ तद्विषं देवता हृत्वा मुनिमेवं भणिष्यति । सविषो दधिलाभस्त मा कृथास्तविस्टहाम् ॥ १४ ॥ सनः परिहते दनि रोगो वर्धिष्यते मुनेः । व्याघयो हि विजृम्भन्ते छलमासाद्य भूतवत् ॥ १५ ॥ रोगनिग्रहणार्थ स पुनरादास्यते दधि । विषापहारं श्रीन वारान् देवता सा करिष्यति ॥ १६ ॥ अन्यदा तु प्रमादेन तद्विषं देवताऽपि सा । न हरिष्यत्यथ मुनिः सविर्ष दधि सोऽत्स्यति ॥ १७ ॥ तनश्चैतन्यचौरीभिर्विषवीचीमिरात्मनः । ज्ञातावसानोऽनशनं महर्षिः स प्रपत्स्यते ॥ १८ ॥ त्रिंशहिनीमनशनं पालयित्वा समाधिना । उत्पन्नकवलज्ञानो विपय शिवमेष्यति ॥१९॥ उदायने शिवगते देवता पुनरेयुषी । ज्ञात्वा ताहकालरात्रिरिव कोपमुपेष्यति ॥ २० ॥ कोपाच सा वीतमयं पूरयिष्यति पांशुभिः । तदादि पांशुवृष्टिं च करिष्यति निरन्तरम् ॥ २१ ॥ तदैव प्रतिमा साऽपि कपिलर्षिप्रतिष्ठिता । भविष्यति महाभाग ! निधानमिव भूगता ॥ २२ ॥ शय्यातरं कुंभकारमुदायनमहामुनेः । अनागसं ततो ही देवता पांशुवर्षिणी ॥ २३ ॥ १ तत्परम् ... ॥ २ मोश्यते ॥ AMAKAL
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy