________________
एकादः सर्गः
वयं चाभय ! सज्ज्ञात्वा तदनुग्रहकाम्यया । चम्पापुर्याः प्रचलिताः समवासार्म तत्पुरे ॥ ६१८ ॥ अस्मान् प्रणम्य श्रुत्वा च देशनां गतवान् गृहे । एवं स चिन्तयामास स्वविवेकगुणोचितम् ।। ६१९॥ सूनवेऽभीचये राज्यं व्रतेच्छुश्चेबदाम्यहम् । संसारनाटकनटस्तन्मयैष कृतो भवेत् ॥ ६२० ॥ उशन्ति नरकान्तं हिसायं नीतिविनोऽरिया। नाना दास्ये दास्य चेत्तन्न तद्धितः ॥ ६२१ ॥ इति केशिनि जामेये राज्यश्रियमुदायनः। सद्यः संक्रमयामास तेजोऽर्क इव पावके ॥ ६२२ ।। जीवन्तस्वामिदेवाय पूजार्थमथ पार्थिवः । शासनेन ददौ भूरि ग्रामाकरपुरादिकम् ॥ ६२३ ॥ ततः केशिनरेन्द्रेण कृतनिष्क्रमणोत्सवः । अस्मत्पाचे परिवज्यामुवायन उपात्तवान् ।। ६२४ ॥ स नपोभिः षष्टाष्टमदशमद्वादशादिभिः । ब्रताहादपि कर्मेष स्वमात्मानमशोयषत् ॥ ६२५ ॥
तृणमिव परिहृत्य राज्यलक्ष्मी श्रामण्यं मतिपत्रवान् विशुद्धम् । इत्यभयकुमार ! कीर्तितस्ते चरमो राजर्षिर्युदायनाख्यः ।। ६२६ ।। ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते विषष्टिशलाकापुरुषचरिते महाकाव्य दशनपर्वणि रौहिणेयचरिता-भयकुमारा
पहारोदायनचरित-प्रद्योतबन्धनोदायनप्रव्रज्यावर्णनो नामैकादशः सर्गः ।।
XII
नास्ति अयं लोकः ।. प्रतौ ।।