________________
एकादशः सर्ग:
जाते पर्युषणापर्वण्यन्यदोदायनोऽकृत । उपवासं स हि श्राद्धस्तस्य देवस्य शासनात् ॥ ५९१ ॥ सूदोज्यापृच्छत्पद्योतं किमद्य नृप ! भोक्ष्यसे । तच्छुत्वाऽवन्तिनाथोऽपि क्षोभादिदमचिन्तयत् ॥ ५९२॥ प्रश्नो यकृतपूर्वोऽयमद्य क्षेमावहो न मे । उपहासवचो ह्येतद्वधषन्धादिसूचकम् ॥ ५९३ ॥ सूपकारमपृच्छन्च किमद्य प्रश्नकारणम् ? । विद्याकृष्टेव रसवत्यागाद्धि समये सदा ॥ ५९४ ॥ सूदोऽप्यकथयद्राजन्नद्य पर्युषणोत्सवः । उपोषितोऽस्ति नः स्वामी सान्तःपुरपरिच्छदः ॥ ५५ ॥ राजार्थ या रसवती भोजितोऽसि तया सदा । अधुना तु त्वदर्थे तां करिष्यामीति पृछपसे ॥ ५९६ ॥ प्रद्योतः स्माह हे सुदोपवासोऽद्यास्तु मेऽपि हि । ज्ञापितं साधु पर्वेदं श्रावको पितरौ मम ॥ ५९७ ॥ सूदोऽप्युदायनायाऽऽख्यत्तत्मयोतस्य भाषितम् । उदायनोऽवददसौ धूनों जानाति वैशिकम् ॥ ५९८ ।। यादृशे नादृशे वाऽस्मिन् कारागारनिवासिनि । न मे साध्वी पर्युषणेत्यमुंपत्तमुवायनः ॥ ५११॥ प्रयोनं क्षमयामास पर्वाचितमुदायनः । पट्टबन्धं च विवधे तस्य भालांकगोपनम् ॥ ६०० ॥ पद्यन्धस्तदाद्यासीद्राज्ञां वैभवसूचकः । किरीटमेव ते पूर्व घपन्धुमौलिमंडनम् ।। ६०१ ।। प्रयोतायावन्तिदेशमुदायननृपो ददौ । वर्षारात्रे त्वतिक्रान्ते स्वयं वीतभयं ययौ ॥ ६०२ ।। शिविरे तत्र वणिजस्तस्थिवांसस्तथैव हि । तैरेव वसमानं तज्जातं दशपुरं पुरम् ॥ ६०३ ।। प्रद्योतोऽपि वीतभयप्रतिमाय विशुद्धधीः । शासनेन वशपुरं दस्थाञ्चन्तिपुरीमगात् ॥ ३०४ ।।
-
३४६
-