SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ इत्युक्त्वा मंडलिकया भ्रमयन् स्वरथं स्यात् । दोष्मानुवायनो योद्धुं स्मयमानोऽभ्यढौकत ॥ २७८ ॥ शिलीमुखैः सूचिमुखैर्धनुर्धरधुरन्धरः । विव्याधानिलवेगस्य विष्वक् पादतलानि सः ॥ ५७९ ॥ वैर्हिः शलाकासंपूर्णपतद्ग्रहमुखोपमैः । चरणैर्गन्तुमसहस्तद्विपोऽभूत् पपात च ॥ ५८० ॥ उदायनेन प्रद्योतः पातयित्वाऽथ कुञ्जरात् । हस्तेन जगृहे बद्ध्वा यशोराशिरिवोच्चकैः ॥ ५८१ ॥ aers sareासीपतिरित्यक्षरस्थ । उदायनोऽवन्तिपतेः स्वां प्रशास्तै नवामिव ॥ २८२ ॥ मंकि दासमिव कृत्वा वीतभयेश्वरः । तद्दिव्यप्रतिमारनमानेतुं विदिशां ययौ ॥ ५८३ ॥ पूजयित्वा च नत्वा च तां दिव्यां प्रतिमां नृपः । उपादातुमुपाक्रंस्त गिरिवन्न चचाल सा ।। ५८४ ।। देवाधिदेव मर्चित्वा सविशेषमुदायनः । उवाच किमभाग्यं मे यन्नैषि परमेश्वरः (र!) ॥ ५८५ ॥ देवोऽप्युवाच मा शोचीर्यद्वीतभयपत्तनम् । पांशुष्षृष्ट्या स्थलं भाषि तनैष्यामि महाशय ! ॥ ५८६ ॥ देवतादेशमा साचोदायनोऽपि न्यवर्तत । प्रयाणवारणी प्राष्टडन्तराले बभूव च ॥ ५८७ ॥ तत्रैव शिविरं राजा न्यधात्पत्तनसन्निभम् । निवसन्ति हि राजानो यत्र तत्रापि पत्तनम् ॥ ५८८ ॥ तस्थुः कृत्वा धूलिवमं तद्रक्षार्थ नृपा दश । ततस्तच्छिबिरं जज्ञे नाम्ना दशपुरं पुरम् ॥ ५८९ ॥ उदयनोsपि प्रद्योतं रणातं भोजनादिना । अपश्यदात्मानमिव क्षत्रधर्मोऽयमीदृशः ॥ ५९० ॥ १ कयत् D || २ बहिः DM ॥ ॥ ३४५
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy