________________
एकादश
%
%
%
007-%%
आगत्यानिलवेगेन नूनं प्रद्योतभूपतिः। प्रतिमां देवदत्तां च निशि चौर इवाहरत् ॥ ५६५ ॥ उवायनोऽपि प्रद्योतं तत्क्षणादभ्यषेणयत् । वादयन् श्मा हपखुरैर्जयभंभामिवापराम् ॥ ५६६ ॥ दशाथ बद्धमुकुटा राजानोऽपि तमन्वगुः । एकादशापि ते चाभान् रुद्रा इव महौजसः ॥ ५६७ ।। अयोधायन सैन्यानां प्रत्यक्षा जांगलक्षितौ । आसन पयायमानार्करोधिर्मग्यो मरीचिकाः॥५६८ ॥ आस्फलन्तो मियो भूमी लुटतोsपि च सैनिकाः । तृषा न किंचिद्राक्षुर्दिवसेऽपि हि घूकवत् ॥ ५६९॥ सन्यः प्रभावतीदेवं तदाऽस्मार्षीदुदायनः । स्मरति व्यसने प्राप्ते को वा नैवेष्टदेवताम् ।। ५७० ॥ स्मृतमात्रोपस्थितेन तेन देवेन वारिणा | त्रिपुष्कराण्यपूर्यन्त प्रमोदेन च सैनिकाः ॥ ५७१ ॥ कटकं सुस्थितं चाभूत् पाय पायं पयस्तदा । चिनाऽप्यन्नेन जीव्येत जीवनीयं विना न तु ।। ५७२ ॥ ततः प्रभावतीदेवो जगाम निजमालयम् । राजा वीतभयेशोऽपि मापदुज्जयिनी पुरीम् ।। ५७३ ॥ तत्रोदायमराजस्यापन्तिनाथस्य चाचिरात् । मियो दूतमुखेनाभद्रयसंगरसंगरः ॥ ५७४ ॥ उदायनोऽथारुरोह धन्वी सांग्रामिकं रथम् । वादयामास मौर्षी ध रणतूरमियापरम् ।। १७ ॥ प्रद्योतोऽपि हि विज्ञाय रथाजय्यमुदायनम् । आरूढोऽनिलवेगेभं का प्रतिज्ञा बलीयसि ॥ ५७६ ॥ उदायनोऽपि तं दृष्ट्वा गजारूखमदोऽवदत् । पाप्मन्नसत्यसंधोऽसि तथापि न भवस्यरे ॥ ५७७ ॥
॥3
2