SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्ग स प्रजापतिनान्येद्युर्विसृष्टोऽभ्यर्य गौरवात् । ययौ कुमारयोराशु ज्ञापितश्च निजनरः ॥१३॥ गत्वा कुमारी मार्गाधै तमकूयतां भटैः । पलायंचक्रिरे सद्यस्तत्सहायास्तु काकवत् ॥१३१॥ तत्प्रजापतिना ज्ञात्वा भीतनानायिती गृह । सत्कृत्य चाधिक चंडवेग एवमभाष्यत ॥१३२॥ कुमारयोर्दुर्विनयं मा स्माख्यः स्वामिनः खलु । अज्ञानजाद् दुर्विनयान्न कुप्यन्ति महाशयाः॥१३॥ आमेत्युक्त्वा ययौ वृत'स्तत्पौंस्नात्त्वग्रतो गतात् । विदाञ्चकाराश्वग्रीवस्तद्धर्षणमशेषतः ॥१३॥ तद्विदं च हयग्रीवं ज्ञात्वा दूतो यथातथम् । स्वधर्षणं तदाचख्यायलीकाख्यानकातरः ॥१३०॥ अश्वग्रीवेण शिष्ट्वाऽन्यः प्रहितो ना प्रजापतिम् । गत्वावोचद्रक्ष सिंहाच्छालीनाज्ञा प्रभोरियम् ॥१३६॥ प्रजापतिः सुतायूचे युवाभ्यां कोपितः प्रभुः। प्रददौ यदवारेऽपि शासन सिंहरक्षणे ॥१७॥ इत्युत्वा प्रस्थितं भूपं कुमारी प्रतिषिध्य तौ । प्रजग्मतुः शंखपुरं सिंहयुद्धसकौतुकौ ॥१३८॥ अन्येऽरक्षन्नुपाः सिंहं कथंकारं कियच्चिरम् । इति पृष्टस्त्रिपृष्ठेन शशंसुः शालिगोपकाः ॥१३॥ चतुरंगचमूवमं कृत्वाऽरक्षन क्षमाभुजः । अ शालिग्रहणमहो वर्षवारक्रमागताः ॥१४॥ ऊचे त्रिपृष्ठस्तानेवं स्थास्यतीयच्चिरं हि कः । तदर्शयत मे सिंहं यथैकाकी निहन्मि तम् ॥१४॥ ततस्तेऽदर्शयन् सिंहं तुंगाचलगुहागतम् । जग्मतुश्च रथारूढी तां गुदा रामशाह्मणौ ॥ १४२ ॥ टि.- तस्य चंढवेगस्व पुरुषसमूदात् ॥१२॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy