SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ तत्पितापि स्वप्रजायाः पतित्वेनाखिलैर्जनैः । प्रजापतिरिति प्रोचे बलीयः कर्म नाम हि ॥ ११७ ॥ विश्वभूतिश्च्युतः शुक्रान्मृगावत्या अथोदरे । सप्तस्वमसमाख्यातविष्णुभावः समागमत् ॥ ११८ ॥ तया च काले सुषुचे सूनुः प्रथमशार्ङ्गभृत् । त्रिकरंडकपृष्ठत्वात् त्रिपृष्ठ इति संजितः ॥ ११ ॥ अशीतिधनुरुत्तुंगो रममाणोऽचलन सः। अधीतसकलकलः क्रमेण प्राप यौवनम् ॥ १२०॥ विशाखनन्दिजीवोऽथ भवं भ्रान्त्वा मृगाधिपः। जातस्तुंगगिरौ शंखपुरदेशमुपाद्रवत् ॥ १२१ ॥ नदानीमश्वग्रीवण भूभुजा प्रतिविष्णुना । मम मृत्युः कुत इति पृष्टो नैमित्तिकोऽवदत् ॥ १२२॥ हन्ता स ते चंडवेगं यो दृतं धर्षयिष्यति । मारयिष्यति यस्तुंगगिरिसिंहं च हेलया ॥ १२३ ॥ अश्वग्रीवस्ततः शंखपुरे शालीनवापयत् । तद्रक्षार्थ चादिदेश वारकेण महीपतीन् ॥ १२४ ॥ सोऽौवीश्च महावीयौँ पुत्री राज्ञः प्रजापतेः । तस्मै द्रुतं चंडवेगं प्रेषीत् 'चार्थेन केनचित् ॥ १२५ ॥ प्रजापतेः कारयतः संगीतं निजपर्षदि । अकस्मात्प्राविशचंडवेगः स्वामिबलोन्मदः ॥ १२६ ॥ आगमाध्ययनस्येयाकालविद्युत्समुद्गमः। स विनभूतो गीतस्याभ्युत्तस्थे तेन भूभुजा ॥ १२७ ॥ मंत्रिणश्च कुमाराभ्यां पृष्टा आख्यन् पुमानयम् । प्रधानभूतोऽश्वग्रीवमहाराजस्य दोषमतः ॥ १२८ ॥ यदा बजत्ययं दृतो ज्ञापनीयस्तदा हि नौ । इति स्वकीयानचलत्रिपृष्ठावूचतुर्नरान् ॥ १२ ॥ १ 'पुरे दे' ८ ॥ २ स्वार्थ ", " ॥ ॥११॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy