________________
प्रथमः सर्गः
विशाखनन्दिनः सोऽथ शिविराभ्यर्णमागतः। विश्वभूतिः कुमारोऽसावित्यदर्यत पूरुषैः ॥१०॥ विशाखनन्दी तं सद्यः प्रेक्ष्य द्विषमिवाकुपत् । गवैकया विश्वभूतिः पर्यस्तश्च सदाऽपतत् ॥१०॥ पित्थपातनं स्थाम क्वते चेत्यहसच्च सः। धृत्वा गां शंङ्गयोर्विश्वभृतिश्चाभ्रमयत्धा ॥१०५॥ भूयिष्ठवीर्यो भूयासं मृत्यवेऽस्य भवान्तरे । अनेन तपसोग्रेण निदानमिति सोऽकरोत् ॥१०६॥ संपूर्य कोटियर्षायुरनालोच्य च तन्मृतः। विश्वभूतिर्महाशुक्रे प्रकृष्टायुः मुरोऽभवत् ॥१०॥ इतश्चात्रैव भरते नगरे पोतनाभिधे । अभूद्रिपुप्रतिशत्रुनाम राजा महाभुजः ॥ १०८॥ तस्य भद्रेति पत्न्यासीत्तस्यां सूनुरजायत । चतुर्भिः सूचितः स्वप्नैबलभद्रोऽचलाभिधः ॥ १० ॥ मृगावतीति नाम्नाऽभूत् पुत्री च मृगलोचना । सोयौवना रूपवती प्रणन्तुं पितरं ययौ ॥ ११०॥ जातानुरागस्तां प्रेक्ष्य निजोत्संगे न्यवत्त सः । तत्पाणिग्रहणोपायं विचिन्त्य व्यसृजच नाम् ॥ १११ ।। पौरवृद्धानथाहृय पप्रच्छेदं महीपतिः । यदन जायते रत्नं तत्कस्य ब्रूत निर्णयम् ? ॥ ११२॥ तवेति ते समाचख्युस्त्रिरुपादाय तद्वचः । मृगावतीं परिणेतुं तत्र चानाययन्नृपः ॥ ११३ ॥ जग्मुस्ते लज्जिताः सर्वे पार्थिवोऽपि मृगावतीम् । गान्धर्वण विवाहेन स्वयमेव ह्युपायत ॥११४॥ लज्जाक्रोधाकुला भद्रा देवी मुक्त्वा महीपतिम् । सहाचलेन निर्गत्य प्रययौ दक्षिणापथे ॥ ११५ ॥ पुरी माहेश्वरी तन्त्र विरचय्याचलो नवाम् । मातरं तत्र संस्थाप्य जगाम पितुरन्तिके ॥ ११६ ।।
॥१०॥