________________
भोजनातिक्रम ज्ञात्वा राज्ञो राज्ञी प्रभावती । आह्वातुमादिशश्चटीं पतिभक्तोचितं यदः ॥ ३९२ ॥ राज्ञाऽपि द्रष्टुमाश्चर्य तदाऽऽज्ञप्ता प्रभावती । तत्रागात्तदपृच्छञ्च राजाऽप्यकथयत्तथा ॥ ३९३ ।। ऊचे च राज्ञी देवाधिदेवा ब्रह्मादयो न हि । देवाधिदेवो भगवानकोऽहन परमेश्वरः ॥ ३५४॥ तदर्हत्प्रतिमैवेह भविष्यति न संशयः । ब्रह्मादिनामस्मरणात् प्रदत्त दर्शनं न सा॥ ३९५ ॥ एषाऽहं दर्शयिष्यामि प्रतिमामहतः प्रभोः । तन्नामस्मरणादेव लोकाः ! पश्यत कौतुकम् ॥ ३१६ ॥ सतश्च संपुटं यक्षकर्दमेनाभिषिच्य तम् । पुष्पाञ्जलिक्षेपपूर्व प्रणम्योचे प्रभावती ॥ ३९७ ॥ गतरागद्वेषमोहः प्रातिहा नृतः : देहातिदेव सर्दशोऽहम वादर्शनं मम ॥ ३९८ ॥ इति देव्या ब्रुवाणायां प्रतिमास्थानसंपुटः । स त्र्यदालीत् स्वयमपि मगे कमलकोशवत् ॥ ३९९ ॥ गोशीर्षचन्दनमयी तदन्तर्देवनिर्मिता । अम्लानमाल्या सर्वांगसंपूर्णा प्रतिमैक्ष्यत ॥ ४.०॥ तदाऽहच्छासनस्याभूदतिमात्रं प्रभावना । प्रभावत्यपि तां नत्वा प्रतिमामस्तवीदिति ॥ ४०१ ॥ सोमदर्शन सर्वज्ञापुनर्भव ! जगद्गुरो !। अर्हन् ! भव्यजनानन्द ! विश्वचिन्तामणे ! जय ।। ४०२॥ सांयात्रिकं ने सत्कृत्य प्रभावत्यपि यन्धुवत् । अन्तरन्तःपुरं निन्ये प्रतिमा रचितोत्सवा ॥ ४०३ ॥ कारयित्वा चैत्यगृहं प्रतिमां न्यस्य तत्र घ । त्रिसंध्यं पूजयामास स्नानपूर्व प्रभावती ॥ ४०४ ।। तामन्यदाऽमिर्चित्वा प्रमोदेन प्रभावती । पत्या समेता संगीतमविगीतं प्रचक्रमे ।। ४०५ ॥
॥३३१॥