________________
विद्युन्माल्यपि तस्वाऽऽज्ञामुररीकृत्य सत्वरः । क्षत्रियकुंडग्रामेऽस्मानपश्यत् प्रतिमास्थितान् ॥ ३७२ ॥ महाहिमवति च्छित्त्वा गोशोर्षचन्दनम् । अस्मन्मूर्ति नथादृष्टां सालंकारां चकार सः ॥ ३८० || जात्येन चन्दनेनाथ स्वयंघटितसंपुटे । प्रतिमां नां स चिक्षेप निधानमिव तद्धनः ॥ ३८९ ॥ तदा चैकस्य पोतस्य षण्मास्युत्पानयोगतः । भ्रमतोऽगात् पयोराशौ विद्युन्माली ददर्श तम् ॥ ३८२ ॥ तमुत्पातं स संहृत्य सद्यः सांयात्रिकाय तम् । समुद्रं प्रतिमागर्भं कथयित्वा समार्पयत् ॥ ३८३ ।। ऊंचे च तं स्वस्ति तुभ्यमिय्या निरुपद्रवम् । सिन्धुसौवीरविषये त्वं वीतभयपत्तनम् ॥ ३८४ ॥ ततश्चतुष्पथे स्थित्वा कुर्वीथा हन्त घोषणाम् । देवाधिदेवप्रतिमा गृह्यतां गृह्यतामिति ॥ ३८५ ॥ सांग्रात्रिकोsपि तत्कालं प्रतिमायाः प्रभावतः । नदीमिव नदीनाथमुत्तीर्य तटमासदत् ॥ ३८६ ।। सिन्धुसौवीरदेशेऽथ गत्वा वीतभये पुरे स्थित्वा चतुष्पथे चक्रे तथैवाघोषणां स ताम् ॥ ३८७ ॥ तापसभ कस्तत्रागाबुदाननुपः स्वयम् । त्रिदंडिनो द्विजन्मानस्तापसा चापरेऽपि च ।। ३८८ ।।
ब्रह्माणमीशानमिष्टं देवमथापरम् । स्मृत्वा लोकाः कुठारेणाजघ्नुस्तं काष्ठसंपुटम् ॥ ३८९ ॥ तत्र स्वरुचि लोकेन मुच्यमाना निरन्तरम् । आयसा अप्यभज्यन्त कुठारास्त्रापुषा इव ।। ३९० ॥ इत्याश्चर्यप्रसक्तस्य राज्ञो दिनमुखादपि । ललाटंत पतपनो मध्याह्नसमयोऽभवत् ॥ ३९१ ॥
-
दिः * तद्धनः- कृपण:
एकादश:
सर्ग:
॥ ३३० ॥