________________
स नागिलवरो देवो यात्रायां यान् ददर्श च | हासामहासयो न्वे तमानकघरं सुरम् ॥ ३६६ ॥ नं विद्युन्मालिनं दृष्ट्वा पुरः पटहवादकम् । अवधेः सुहृदं ज्ञात्वाऽभिभाषितुमुपासरत् ॥ ३६७ ।। तस्य चांगप्रभालोकमुलूक इथ भास्वतः । सोढुं दुरादप्यशक्तः पलायनमनाटयत् ॥ ३६८ ॥ सायाहार्क इव तेजः स्वं संहृल्याच्युतामरः । विद्युन्मालिनमित्यूचे पश्य जानासि मां न किम् ? ॥३६९। देवः पाहिकोऽप्येवमुवाच ननु कोऽस्यहम् । यन्महीन जानामि देवानिन्द्रादिकानपि ॥ ३७० ॥ अथ श्रावकरूपं तद्विरघय्याच्युतामरः । जाप्यापनासारमण तमेवं पायोधगम् ॥ ३५१ ॥ सखे ! मदुपदेशेनाऽऽर्हतं धर्ममनाश्रयन् । अग्निमृत्यु तदाऽकार्षीः पतंग इव मूढधीः ॥ ३७२ ॥ अहं तु जिनधर्मज्ञः प्रव्रज्या पालयन्मृतः । तदावयोरभूदीहगुदर्कः स्वस्वकर्मणः ।। ३७३ ॥ ततो निर्वेदमापनं पंचशैलेश्वरं सुरम् । यदन्तं किं करोमीति नागिलस्त्रिदशोऽवदत् ॥ ३७४ ॥ गाईस्थ्यचित्रशालायां कायोत्सर्गेण तस्थुषः । प्रभोर्भावयतेभूति महावीरस्य कारयः ॥ ३७५ ॥ अर्हतः प्रतिमायां हि कारितायां सखे ! तव । उत्पत्स्यते भवेऽन्यस्मिन् बोधिधी महाफलम् ।। ३७६ ।। रागद्वेषमोहजितां प्रतिमां श्रीमदर्हताम् । यः कारयेत्तस्य हि स्थाद्धर्मः स्वर्गापवर्गदः॥ ३७७ ।। *जिनार्चाकारकाणां न कुजन्म कुगतिर्न च । न दारिद्रयं न दौर्भाग्यं न चान्यदपि कुत्सितम् ॥ ३७८ ॥ टि. * अर्चा- प्रतिमा ।
॥३२९॥