________________
तत्समीपेऽवतीर्णे ते व्युद्ग्राहार्थ पतीच्छया । कुमारनन्यपि प्रोचे ते दृष्ट्वा के युवामिति ॥ ३३९॥ कथयामासतस्ते च देव्यायावां मनुष्यक।। नाम्ना हासा महासाच ते पश्यन्मोहमाप सः॥ ३४॥ लब्धसंज्ञोऽर्थयांचक्रे ते रिरंसुः स हेमकृत् । तेऽवोचतुः समागच्छीपे त्वं पंचशैलके ॥ ३४१ ॥ इत्युक्त्वोत्पतिते ते तु स्वर्णकारोऽपि भूभुजे। दत्त्वा सुवर्ण पटहाघोषणामित्यकारयत् ॥ ३४२ ॥ नेता यः पंचशैले मां द्रव्यकोटि स लप्स्यते । एकश्च स्थविरो धृत्वा पटहं धनमाददे ॥ ३४३ ॥ स्थविरः कारयित्वा च यानपात्रमपूरयत् । भूयसा पथ्यदनेन पुत्रेभ्यस्तु धनं ददौ ॥ ३४४ ॥
नारमनिया सार्य चाणक्योऽपि वर्मनि । गत्वा स दूरमित्यूचे स्थविरः पश्य नन्वितः ॥ ३४२ ॥ अधिकूले शैलपादजातोऽयं दृश्यते क्टः। तदस्मिन् बिलगर्याति यानपात्रमधो यदा ॥ ३४६ ।। पंचशैलादिहेष्यन्ति भारुण्डास्त्रिपदाः खगाः । तेषु सुप्तेपु चैकस्य कस्याप्यंही तु मध्यमे ॥ ३४७ ॥ गाढं बद्ध्वा पटेन स्वं विलगढमुष्टिना । प्रातरुडीनभारुण्डैः पंचशैलं त्वमाप्स्यसि ॥ ३४८ ॥ (युग्मम्) ततः परं यानपात्रं महावर्ते विनंक्ष्यति । अविलमो बटे हन्त त्वमप्येवं विक्ष्यसि ॥ ३४९ ॥ स स्वर्णकृत्तथा चक्रे निन्ये तत्र च पक्षिणा । दृष्टस्ताभ्यां तदृष्ट्या च स विशेषमरज्यत ॥ ३५० ॥ ताभ्यां चोचेमुनांगेन नावां भोग्ये तवानघ ! । अग्निप्रवेशादिना तत् पंचशैलाधिपो भव ॥ ३५१ ॥
SHAR
|| २ बाद
१होद्धोष
ASI
11
३२७॥