________________
इतश्च भगवान् वीरः प्रव्राज्योदायनं नृपम् । मरुमंडलतस्तत्राभ्यागत्य समवासरत् ॥ ३११ ॥ दिष्ट्याऽद्य भगवानागादिति हृटो भयोऽपि हि । गत्वा नत्वा भगवन्तं भक्तिमानेवमस्तवीत् ॥ ३१२ ॥ सत्त्वस्यैकान्त नित्यत्वं कृतनाशाकृतागर्भा । स्यातामंकान्तनाशेऽपि कृतनाशाकृतागमौ ॥ ३१३ ॥ आत्मन्येक्रान्तनित्ये स्यान्न भोगः सुखदुःखयोः । एकान्तानित्यरूपेऽपि न भोगः सुखदुःखयोः ॥ ३१४॥ पुण्यपापे बन्धमोक्षौ न नित्यैकान्तदर्शने । पुण्यपापे बन्धमोक्षौ नानित्यैकान्तदर्शने ॥ ३१५ ।। क्रमाक्रमाभ्यां नित्यानां युज्यतेऽर्थक्रिया न हि । एकान्तक्षणिकत्वेऽपि युज्यतेऽर्थक्रिया न हि ॥ ३९६ ॥ यदा तु नित्यानित्यत्वरूपता वस्तुनो भवेत् । यथाऽऽत्थ भगवन्नैव तदा दोषोऽस्ति कश्चन ॥ ३१७ ॥ गुडो हि कफहेतुः स्यानागरं पित्तकारणम् । द्वयात्मनि न दोषोऽस्ति गुडनागरभेषजे ॥ ३१८ ॥ द्वयं विरुद्धं नैकत्रासत्प्रमाणप्रसिद्धितः । विरुद्धवर्णयोगो हि दृष्टो मेघकवस्तुषु ॥ ३१९ ॥ विज्ञानस्यैकमाकारं नानाऽऽकारकरम्बितम् । इच्छंस्तथागतः प्राज्ञो नानेकान्तं प्रतिक्षिपेत् ॥ ३२० ॥ चित्रमेकमनेकं च रूपं प्रामाणिकं वदन् । यौगो वैशेषिको वाऽपि नानेकान्तं प्रतिक्षिपेत् ॥ ३२१ ॥ इच्छन् प्रधानं सत्त्वाद्यैर्विरुद्वैर्गुम्फितं गुणैः । सांख्यः संख्यावतां मुख्यो नानेकान्तं प्रतिक्षिपेत् ॥ ३२२ ॥ मितिः संमतिर्वापि वार्वाकस्य न मृग्यते । परलोकात्ममोक्षेषु यस्य मुश्यति शेमुषी ॥ ३२३ ॥ तेनोत्पादव्ययस्थेमसंभिनं गोरसादिवत् । त्वदुपशं कृतधियः प्रपन्ना वस्तु वस्तु सत् ॥ ३२४ ॥
1
॥ ३२५