________________
१HTRA
सग:
MHKPAYPANTHLY
दिनमेकं प्रसोक्षध्वमूर्ध्व यत्प्रतिभाति वः । तद्विधत्तत्यपाविष्ट प्रणम्य श्रेणिकात्मजः ॥ २९८ ॥ मोऽथ राजकुलात् कृष्ट्वा रत्नकोटित्रयीं बहिः । दास्याम्यतामेत लोकाः ! पटहेनेत्यघोषयत् ॥ २१९ ॥ ततश्चैयुर्जनाः सर्वेऽप्यवोचदभयोऽप्यदः । जलाग्निस्त्रीवर्जको यस्तस्य रलोचयोऽस्त्वयम् ॥ ३०० ॥ लोकोत्तरमिदं लोकः स्वामिन् ! किं कर्तुमीश्वरः ? । इति तेवाभाषमाणेष्वभयोऽपीत्यभाषत ।। ३०१ ॥ यदि वो नेदृशः कश्चिद्रत्नकोटिनयं ततः । जलाग्निस्त्रीमुचः काष्ठभारिणोऽस्तु महामुनेः ॥ ३०२॥ सम्यगीगयं साधुः पात्रदानस्य युज्यते । मुधाऽसौ हसितोऽस्माभिरिति तैर्जगदेऽभयः ॥ ३०३ ॥ अस्य भत्र्सीपहासादि न कर्तव्यमतः परम् । आदिष्टमभयेनेवं प्रतिपद्य ययुर्जनाः॥ ३०४ ॥ एवं बुद्धिमहाम्भोधिः पितृभक्तिपरोऽभयः । निरीहो धर्मसंसक्तो राज्यमन्वशिषत्पितुः ।। ३०५ ॥ वर्तमानः स्वयं धर्मे स प्रजा अप्यवर्तयत् । प्रजानां च पशूनां च गोपायत्ताः प्रवृत्तयः ॥ ३०६ ॥ राजचके जजागार यथा द्वादशधा स्थिते । तथा श्रावकधऽपि सोऽप्रमद्वरमानसः ॥ ३०७ ।। घहिरंगान्यथाऽजैषीद दुर्जयानपि विद्विषः । अन्तरंगानपि तथा स लोकद्वयसाधकः ॥ ३०८ ॥ तमूचे श्रेणिकोऽन्येार्वत्स ! राज्यं त्वमाश्रय । अहं श्रयिष्ये श्रीवीरशुश्रूषासुखमन्वहम् ॥ ३०९ ॥ पिताज्ञाभंगसंसारभीररित्यभयोऽब्रवीत् । यदादिशथ तत्साधु प्रतीक्षध्वं क्षणं परम् ।। ३१० ॥ १ तश्यु र्ज ८.L.V.॥
---||
३२४