________________
अधाभयेन प्रद्योत सहगेकः पुमान्निजः । उन्मत्तो विदधे तस्य प्रद्योत इति नाम च ॥ २८५ ॥ feats मम भ्राता भ्राम्यतीतस्ततस्ततः । रक्षितव्यो मया हा किं करोमीत्यवदज्जने ॥ २८६ ॥ तं वैसझनयनच्छद्मना प्रत्यहं बहिः । रटन्तं मञ्चकारूढं निनायाऽऽर्तमिवाभयः ॥ २८७ ॥ नीयमानश्च तेनोचैः स उन्मत्तचतुष्पथे । प्रयोतोऽहं हियेऽनेनेत्युदश्रुवदनोऽरटत् ॥ २८८ ॥ सप्तमेऽह्नि नृपोऽयमाच्छमेककः । कामान्धः सिन्धुर इव बद्धश्वाभयपूरुषः ॥ २८९ ॥ atest वैद्यमेत्य भयेनाभिभाषिणा । पर्यकेन समं जट्रे पुरान्तः स रदन् दिवा ॥ २९० ॥ क्रोशे क्रोशे पुरो मुक्त स्थैरथ सुवाजिभिः । पुरे राजगृहेऽनैषीत् प्रद्योतमभयो भयः ॥ २९९ ॥ ततो निनाय प्रयोतं श्रेणिकस्य पुरोऽभयः । दधावे खमाकृष्य तं प्रति श्रेणिको नृपः ॥ २९२ ॥ अभयकुमारेण बोधितो मगधेश्वरः । संमान्य वस्त्राभरणैः प्रद्योतं व्यसृजन्मुदा ॥ २९३ ॥ अन्यदा गणभृद्देव सुधर्मस्वामिनोऽन्तिके । प्रव्रज्यामग्रहीत् कोऽपि विरक्तः काष्ठभारिकः ॥ २९४ ॥ विहरन् स पुरे परैः पूर्वावस्थाऽनुवादिभिः । अभर्त्स्यतो पाहस्यतागतापि पदे पदे ॥ २९५ ॥ नावज्ञां सोडुमीशोऽत्र तनो विहरतान्यतः । इति व्यज्ञपयत् स श्रीसुधर्मस्वामिनं गुरुम् ॥ २९६ ॥ सुधर्मस्वामिनाऽन्यत्र विहारक महेतवे । आपृच्छ्यता भयः पृच्छन् ज्ञापितस्तच कारणम् ॥ २९७ ॥
१ मन्यमे ॥ २ पुरा / ॥
से एक