SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ एकादश अभाषताभयोऽप्यवं महाराज्ञी शिवा स्वयम् । करोतु कूरबलिना भूतानामर्चनं निशि ॥ २७२ ॥ यद्यद् भलं शिवारूपेणोनियमनासाको ' इस तस्य मुखे देव्या क्षेप्यः कूरथलिः स्वयम् ॥ २७३ ।। विदधे शिवया तच्चाशिवशान्तिर्षभूव च । तुर्य चादाद्वरं राजा ययाचे चाभयोऽप्यदः ॥ २७४ ॥ स्थितो नलगिरौ 'मिठीभूते त्वयि शिवांकगः । अहं विशाम्यग्मिभीरुरथदारुकृतां चिताम् ॥ २७० ।। नतो विषण्णः प्रद्योतो वरं दातुमशक्नुवन् । विससर्जाञ्जलिं कृत्वा कुमारं मगधेशितुः ॥ २७६ ॥ आशुश्रावाभयोऽप्येवं त्वयाऽऽनीतरच्छलादहम् । दिवा स्टन्तं पूर्मध्ये त्वां तु नेष्याम्यसावहम् ।। २७७ ॥ * ततोऽभयकुमारोऽगात् क्रमाद्राजगृहे पुरे । कथमप्यवतस्थे च कंचित्कालं महामतिः ॥ २७८ ॥ गृहीत्वा गणिकापुत्र्यौ रूपवत्यावथाभयः । वणिग्वेषोऽगादयन्त्यां राजमार्गेऽग्रहीद् गृहम् ॥ २७ ॥ प्रद्योतेनेक्षित ते च दारिके पथि गच्छता । ताभ्यां च सविलासाभ्यां प्रयोतोऽपि निरीक्षितः ॥ २८० ।। प्रयोतेन गृहे गत्वा प्रेषिता रागिणा ततः। दृत्यनुनयन्ती ताभ्यां शुद्धाभ्यामपहस्तिता ॥ २८१ ॥ द्वितीयस्मिन्नपि दिनेऽर्थयमाना मृपाय सा। ताभ्यां शनैः सरोषाभ्यामवामन्यन दृतिका ॥ २८२ ॥ तृतीयेऽप्यन्यनिर्वेदादेत्य ते याचिते तया । अवोचतां सदाचारो भ्राता नावष रक्षति ।। २८३ ।। ततो बहिर्गतेऽमुधिमन् सप्तमऽहि समागते । इहायातु नृपश्छन्नस्ततः संगो भविष्यति ॥ २८४ ॥ १/१ मी C | मेटो |
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy