SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ निषादिनो नलगिरिं वालयित्वा ततश्च त । पथा यथागतनैव पुनरुज्जयिनी ययुः ॥ २६० ॥ कटकोपक्रम कुर्वन प्रद्योतः कुलमन्त्रिभिः । भक्तः कोपकृतान्तोऽपि युक्तिपूर्वमवार्यत ॥ २६१ ।। वराय यस्मै कस्मैचिदयाऽवश्यं हि कन्यका । तद्वत्सराजादधिकं कं जामातरमाप्स्यसि ॥ २६२ ॥ भेजे वासवदत्ता तं स्वयमेव स्वयंवरा । स्वामिस्त्वदुहितुः पुण्यैरुचितः सोऽभवद्वरः ॥ २६३ ।। नदलं कटकारंभेणानुमन्यस्व तं वरम् । यतो वासवदत्तायाः स कौमारहरोऽभवत् ॥ २६४ ॥ इति तै|धितो राजा वत्सराजाय संमदात् । प्रेषीज्जामातृभावाई वस्तुजातं विधेयवित् ॥ २६५ ॥ अभूदवन्त्यामन्येयुर्निविच्छेदं प्रदीपनम् । पृष्ठश्च तत्प्रतीकारं प्रयोतेनाभयोऽववत् ॥ २६६ ॥ विषस्येव विषं वह्नहिरेव यौषधम् । तदन्यः क्रियतां वह्निर्यथा शाम्येत्प्रदीपनम् ।। २६७ ॥ तत्तथा विदधे राजाऽशाम्यत्ता प्रदीपनम् । तृतीयं च वरं सोऽदान्यासीचक्रेऽभयश्च तम् ।। २६८ ।। अशिव महदन्येगुरुजयिन्यां समुत्थितम् । तत्प्रशान्त्यै नरेन्द्रेण पृष्ट इत्यभयोऽब्रवीत् ॥ २६९ ॥ आगच्छन्त्वन्तरास्थानं देव्यः सर्या विभूषिताः । युष्माञ्जयति या दृष्टया कथनीया तु सा मम ॥ २० ॥ तथैव विदधे 'राज्ञा राज्योऽन्या विजिता दृशा । देव्या तु शिवया राजा कथितं चाभयाय तत् ॥२७१ ॥ - -.. यथा CL.1 R राक्षा D..|| ३ राजा |
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy