________________
कक्षायां बध्यमानायां यथा रसति हस्तिनी । योजनानां शतं गत्वा प्राणत्यागं करिष्यति ॥ २४६ ॥ वसन्तको हस्तिपकोsपन्नादुदयनाज्ञया । चतस्रो मूत्रघटिकाः करिण्याः पाश्वयोर्द्वयोः ॥ २४७ ॥ वत्सराजो घोषवतीपाणिः प्रयोतनन्दना । काञ्चनमाला वसन्तश्वारोहस्तमथ द्विपीम् ॥ २४८ ॥ योगन्धरायणोऽप्येत्य तुनोद करसंज्ञया । पाहि ग्राहीत्युवयनं सोऽपि गच्छन्दोऽवदत् ॥ २४९ ॥ वासवदत्ता काञ्चनमाला चैव वसन्तकः । वेगवती घोषवती वत्सराजश्व यान्त्यमी ॥ २५० ॥ प्रेरयन् वारणवधू वत्सराजोऽतिरंहसा । आत्मानं ज्ञापयन्नेवं नालुपत्क्षत्रियव्रतम् ॥ २२१ ॥ प्रद्यतोऽपि गतं ज्ञात्वोदयनं पंचभिः सह । करौ जघर्षाक्षद्यूने पाशकान् पातयन्निव ॥ २२२ ॥ अवनीशो नलगिरिं सन्नाह्यासत्यविक्रमः । निषादिभिर्महायोवैरास्थितं पृष्ठतोऽमुचत् ॥ २२३ ॥ पञ्चविंशतियोजन्यामतीतायां स कुञ्जरः । अदवीयानुदयनेनादृश्यत भयंकरः ॥ २५४ ॥ ततो मूत्रघटमेकां स्फोटयित्वा महीतले । तथैव प्रेरयामासोदयनस्तां करेणुकाम् ॥ २५५ ॥ गजोsपि तीसूत्रं जिघन् क्षणमिवास्थित । कष्टेन प्रेर्यमाणस्तु प्रससार पुनस्तथा ॥ २५६ ॥ मार्गे मूत्रघटीरन्या अपि नावति तावति । स्फोटं स्फोटं नलगिरेर्वत्सराजोऽरुणङ्गतिम् ॥ २२७ ॥ योजनानां शतं गत्वा कौशाम्बी प्रविवेश सः । परिश्रान्ता तदा सा च व्यपद्यत करेणुका ।। २५८ ।। यावच मूत्रमाजिघ्रन् प्रससार न वारणः । कौशाम्बी पति सेनाऽपि तावद्योद्धुमठोकत ॥ २५९ ॥
एकादश: सर्ग:
।। ३२०