SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ अन्यदोद्यापनिकयोद्याने प्रत्यचलनृपः। सान्तःपुरपरीवारः पौरैः सह महर्द्धिभिः ॥ २३२॥ तदाच वत्सराजस्य मोक्षोपायं विचिन्तयन् । मागें परिभ्रमन्नासीन्मंत्री योगन्धरायणः॥२०॥ स्वबुद्धिविभवोष्माणं हृदन्तर्धक्षमः । स पपाठ यन्मनसि प्रायस्तद्धि वचस्यपि ॥ २३४॥ यदि तां चैव नां चैव नां चैवायतलोचनाम् । न हरामि नृपस्यार्थे नाहं योगन्धरायणः ।। २३५ ॥ गच्छंश्च चंडप्रयोतस्तस्य वाचं ससौष्ठवाम् । आकर्ण्य तं निरैक्षिष्ट दुष्कटाक्षेण चक्षुषा ॥ २३६ ॥ योगन्धरायणोऽप्याशु परेषामिंगितादिभिः । भावज्ञोऽवन्तिनृपति विवेद कुपितं तदा । २३७ ॥ कौशाम्बीपतिगृह्यत्वमपाकर्तुं स आत्मनः । प्रत्युत्पन्नधियां धुर्य इदमौपयिकं मचात् ॥ २३८ ॥ मुक्त्वा संव्यानस्थः प्रेतातिविकृताकृतिः । मूत्रयन् व्यञ्जयामास भूताविष्टत्वमात्मनः ॥ २३॥ पिशाचकी कश्चिदसायिति ज्ञात्वा नृपोऽपि हि । सद्यः कोपं निजग्राह निषादीच मतंगजम् ॥ २४ ॥ ततश्च चण्डप्रद्योतो गत्वोधानेऽनवयवाक । गान्धर्वगोष्ठीमारेभे स्मरद्विपमहौषधम् ॥ २४१॥ गान्धर्वकौशलं द्रष्टुं नवं प्रयोतभूपतिः । आवासवदत्तां च वत्सराजं च कौतुकी ॥ २४२ ॥ ऊचे प्रद्योततनयां यत्सराजः शुभानन !| आरुह्येभी वेगवतीं गन्तुं बालोऽयमावयोः॥२४॥ सयो जिनमरुद्वेगां ततो वेगवतीमिभीम् । आनाययदयन्तीशदुहितोदयनाज्ञया ॥ २४४ ॥ कक्षायां वध्यमानायां सा ररास च हस्तिनी । श्रुत्वा तद्रसितं चैवमन्धमौहर्तिकोऽवदत् ॥२४५।।
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy