SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ तं च वासवदत्ताऽपि सद्यः स्फारितलोचना । सर्वांगसुभगं साक्षादिवाद्राक्षीन्मनोभुवम् ॥ २१९ ॥ दृष्ट्वा वासवदत्ता तं वत्सराजोऽपि तां तदा । परस्परानुरागर्दिसूचकं चक्रतुः स्मितम् ॥ २२० ॥ प्रयोतपुत्री प्रोवाच धिग्धिक् पित्राऽस्मि वंचिता । हुतमिखेन्दुमिव याऽपश्यं त्वां न सुन्दर ! || २२१ ॥ कलाचार्य ! कलाः सम्यति संक्रमिता नोगिन्यः सन्तु भर्ता त्वमेत्रि मे ॥ २२२ ॥ वत्सराजोऽषद ! त्वत्पित्रैवास्मि वंचितः । कार्णत्यन्तरितां कृत्वा त्वां पश्यन्नस्मि वारितः ॥ २२३ ॥ कान्ते ! तदावयोर्योगो भवत्वत्रैव तस्थुषो: । समये त्वां हरिष्यामि वैनतेयः सुधामिव ॥ २२४ ॥ स्वयंदृत्येन वैदग्धीबन्धुरं जल्पतोरिति । मनोयोगस्पर्द्धयेव वपुर्योगोऽप्यभूत्तयोः ॥ २२५ ॥ दासी वासवदत्ताया धात्री विश्रम्भभाजनम् । एका काञ्चनमालैव विवेद चरितं तयोः ॥ २२६ ॥ एकयैवोपास्यमानौ दास्या काञ्चनमालया । केनाप्यज्ञानदाम्पत्यो तो कालमतिनिन्यतुः ॥ २२७ ॥ अन्यदाऽऽलानमुन्मूल्य पातयित्वा निषादिनौ । स्वैरं नलगिरिभ्राम्यन् क्षोभयामास नागरान् ॥ २२८ ॥ असाववशगो हस्ती वशं नेयः कथं न्विति । राज्ञा पृष्टोऽभयोऽशंसद्गायतृधनो नृपः ॥ २२९ ॥ गीतं नगरेर कुर्वित्युक्तोऽथ भूभुजा । जगावुदयनस्तत्र समं वासवदत्तया ।। २३० ।। कर्णनाक्षिप्तो बद्धो नलगिरिः करी । पुनर्ददौ वरं राजा न्यासी चक्रेऽभयस्तथा ॥ २३९ ॥ १ "नेव ॥ एकादश सर्ग: ।। ३१८
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy