________________
स गायति वने गत्वा गजास्तगीतमोहिताः । अपि बन्धं न जानन्ति पीतस्वादुरसा इव । १९२ ।। गीतोपायेन स यथा वने बानि सिन्धुरान् । तथा तस्याप्युपायोऽस्ति बन्धेऽश्रानयनेऽपि च ॥ १९३ ॥ कार्यtra 'किलिश्च वने सत्य इव द्विपः । कुर्वन् यत्रप्रयोगेण क्रिया गत्यासनादिकाः ॥ १९४ ॥ किलिञ्जहस्तिमध्येच भटाः स्थास्यन्ति शस्त्रिणः । ते गजं चलयिष्यन्ति भेत्स्यन्ति च त एव तम् १०० दूध्वा चैवं वत्सराज इहानीतस्तवाऽऽज्ञया । कन्यां वासवदत्तां ते गान्धर्व शिक्षयिष्यति ॥ १९६ ॥ साधु साध्विति राज्ञाऽनुमतो मन्त्रयपि तं तथा । अकारयङ्गजं सत्यगजादप्यधिकं गुणैः ॥ १९७ ॥ दन्तघातकरोत्क्षेपबृंहितप्रसरादिभिः । तं कुञ्जरं वनचरा विदाञ्चकुरकृत्रिमम् ॥ १९८ ॥
रास्तं करिणमाख्यनुदयनाय ते । तद्बन्धार्थं वने तस्मिन् ययावुदयनोऽपि हि ॥ १९९ ॥ दूरे मुक्त्वा परीवारं परिक्रामञ्च्छनैः शनैः । शकुनान्वेषक हव वनान्तः प्रविवेश सः ॥ २०० ॥ मायाकरटिनस्तस्य समीपमुपसृत्य च । जगावुदयनस्तारमपरीकृतकिन्नरः ।। २०१ ।। जगावुदयनो गीतं सुधास्वादु यथा यथा । तथा तथाऽन्तः पुरुषाः स्तिमितांगं गजं व्यधुः ॥ २०२ ॥ कौशाम्बीशोऽपि नं नागं मन्वानो गीतमोहितम् । शनैः शनैरभ्यसर्पत्तिमिरे संचरन्निव ॥ २०३ ॥ स्तब्धोऽयं मम गीतेनेत्युपसृत्य स पार्थिवः । उत्प्लुत्येभं तमारोहद्विहंग इव पादपम् ॥ २०४ ॥
I
१-२ कलि C. L. ॥ ३ यंति । मत्स्यन्ति । मेत्स्यन्ति D ॥
एकादश
सर्गः
॥३१६