________________
दूरं गत्वा भोक्तुकामः शकुनैर्वारितः पुनः । ततो गत्वा स तत्सर्व प्रयोतस्य न्यवेदयत् ॥ १७९ ॥ ततो राज्ञा समाहूय तत्पृष्टः श्रेणिकात्मजः । पाययभस्त्रामाघाय जगाद मतिमानिदम् ॥ १८ ॥ अस्ति दृष्टिविषोऽत्राहियसंयोगसंभवः । असौ दग्धो भवेन्नूनं भस्त्रामुद्धाटयेद्यदि ॥ १८१ ॥ ततः पराङ्मुखोऽरण्ये मोच्य इत्यभयोदिते । तथैव मुमुचे सद्यो दग्धा वृक्षा मृतश्च सः ॥ १८२॥ विना बन्धनमोक्षं त्वं वरं याचस्व मामिति । नृपेणोक्तऽभयोऽवादीन्न्यासीभूतोऽस्तु मे वरः॥ १८३ ॥ इनश्च चंडप्रद्योतराजस्य श्रीरिवोदधेः । अभूद्वासवदत्तेति सुताऽगारवतीभवा ॥ १८४ ॥ धात्रीजनैलाल्यमाना वर्धमाना क्रमेण सा । राज्यलक्ष्मीरिव साक्षाद्रेमे राजगृहांगणे ॥ १८५ ।। सर्वलक्षणसंपूर्णा विन यादिगुणान्विताम् । पुत्रादप्यधिको मेने राजा तामतिवत्सलः ॥ १८६ ॥ आत्मानुरूपगुर्वन्ते साध्यैष्ट सकलाः कलाः । गान्धर्ववेद एवैकोऽवाशिष्यत गुरुं विना ॥ १८७॥ राजाऽपृच्छच्च सचिवं बहुदृष्टं बहुश्रुतम् । भावी को नाम दुहितुर्गान्धर्वाध्यापने गुरुः ॥ १८८ ॥ प्रायेण राजपुत्रीणां गतानां पतिवश्मनि । पत्युविनोदे गान्धवकलैय युपयोगिनी ॥ १८९ ।। मन्त्री प्रोवाच गान्धर्वधुरीणानां शिरोमणिः । संप्रत्युदयनो राजा मूर्तिरन्यैच तुम्बरोः ॥ १९ ॥ श्रूयते तस्य गान्धर्वकला काऽप्यतिशागिनी । गीतेन मोहयित्वा यो वने यध्नाति सिन्धुरान् ॥ १९१ ।। १ राम्मु (.1.1 २णोतो DMR -
GAONKARACHAR