________________
AY'
एकादशः
सगः
एवं विमृश्य मनसा ययौ भगवतोऽन्तिक । प्रणम्य चरणौ भक्त्या रोहिणेयो व्यजिज्ञपत् ।। ८८ ॥ भवाञ्चों प्राणिनां घोरविपन्नक्रकुलाकुले । महापोतायत ते गीरायोजनविसर्पिणी ॥ ८९ ॥ निषिद्धस्त्वद्वचः श्रोतुमनाप्तेनाऽऽप्तमानिना । इयत्कालमहं पित्रा वंचित रिम्रजगद्गुरो ! ॥ १० ॥ त्रैलोक्यनाथ ! ते धन्याः श्रधानाः पियन्ति ये । भववचनपीयूषं कर्णालिपुटः सा ॥ ११ ॥ अहं तु पापोऽशुश्रुषुर्भवतो भगवन् ! बचः । पिधार कर्णी हा कष्टमिदं स्थानमलंघयम् ॥ १२ ॥ एकदाऽनिच्छताऽप्येकं श्रुतं युष्मद्वषो मया । तेन मंत्राक्षरेणेव रक्षितो राजराक्षसात् ॥ १३ ।। यथाऽहं मरणात्नातस्तथा त्रायस्थ नाथ ! माम् । संसारसागरावर्ने निमजन्तं जगत्पते ! ॥ १४ ॥ ततस्तत्कृपया स्वामी निर्वाणपदायिनीम् । विशुद्धां विदधे साधु साधुधर्मस्य देशनाम् ।। १५ ।। ततः प्रबुद्धः प्रगमन रोहिणेयोऽब्रवीदिदम् । यतिधर्मस्य योग्योऽस्मि न बत्यादिश्यनां ? प्रभो ! ॥१६॥ योग्योऽसीनि स्वामिनोक्तो ग्रहीष्यामि विभो ! व्रतम् । परं किंचिद्वदिष्यामि श्रेणिकनेत्युवाच सः ॥१७॥ निर्विकल्प निर्विशंकं स्ववक्तव्यमुदीरय । इत्युक्तः श्रेणिकपेणोचे लोहखुरात्मजः ॥ १८ ।। इह देव ! भवद्भिर्यः श्रुतोऽहं लोकवार्तया । स एष रोहिणयोऽस्मि भवत्पत्तनमोषकः ॥ १९ ॥ भगवद्वचसकेन दुर्लच्या लंघिता मया । प्रज्ञाऽभयकुमारस्य तरण्डनेव निम्नगा ।। १०० ॥ १ तस्य ।
३०८