SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ घ. श. पु. च. दशमे पर्वणि जातः सुरः किमस्मीति दध्यौ यावत्स तस्करः । संगीतकार्य तावतैः प्रदत्तः समहस्तकः ॥ ६१ ॥ उपेत्य पुंसा केनापि स्वर्णदण्डभृता ततः । सहसा भोः ! किमारब्धमेतदेवमभाष्यत ॥ ६२ ॥ ततः प्रतिबभाषे तैः प्रतीहारे ! निजप्रभोः । प्रदर्शयितुमारब्धं स्वकं विज्ञानकौशलम् ॥ ६३ ॥ सोsयुवाच स्वनाथस्य दर्श्यतां निजकौशलम् । देवलोकसमाचारः किं त्वसौ कार्यतामिति ॥ ६४ ॥ नैरुक्तं कीहगाचार इति श्रुत्वा स पूरुषः । साक्षेपमित्यभाषिष्ट किमेतदपि विस्मृतम् ? || ६५ ॥ य इहोत्पद्यते देवः स स्वं सुकृतदुष्कृते । आख्यानि प्राक्तने स्वर्गभोगाननुभवेत्ततः ॥ ६६ ॥ विस्मृतं स्वामलाभेन सर्वमेतत्प्रसीद नः । देवलोकस्थितिर्देव ! कार्यतामिति तेऽवदन् ॥ ६७ ॥ स रौहिणेयमित्यूचे निजे हन्न शुभाशुभे । प्राक्तने शंस नः स्वर्गभोगान् भुंक्ष्व ततः परम् ॥ ३८ ॥ तनः सोऽचिन्तयद्दस्युः किमेतत्सत्यमीदृशम् । मां ज्ञातुमभयेनैष प्रपंचो रचितोऽथवा ॥ ६९ ॥ ज्ञेयं कथमिदमिति ध्यायता मेन संस्मृनम् । कंटकोद्धरणकालाकर्णितं भगवद्वचः ॥ ७० ॥ देवस्वरूपं श्रीवीरात् श्रुतं चेत् संवदिष्यति । तत्सत्यं कथयिष्यामि करिष्याम्यन्यथोत्तरम् ॥ ७१ ॥ इम युद्धया मतानीक्षांचक्रे क्षिमितलस्पृशः । प्रस्वेदमलिनान्म्लानमाल्यानिमिषदीक्षणान् ॥ ७२ ॥ तत्सर्वं कपटं ज्ञात्वाऽचिन्तयद्दस्युरुत्तरम् । नेनोचे कथ्यतां देवलोकः सर्वोऽयमुत्सुकः ॥ ७३ ॥ १२ ८ । २ : " CLI ३ राख्यातं ॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy