SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ तो निरपराधोऽपि दूध्वा चौर इवाधुना । अहमेभिरिहाऽऽनीतो नीतिसार ! विचारय ॥ ४८ ॥ ari भूपतिर्गुप्त प्रेषयामास तत्क्षणात् । तत्प्रवृत्तिज्ञानहेतोस्तत्र ग्रामे च पूरुषम् ।। ४९ ।। सोऽग्रेऽपि ग्राहितो ग्रामः संकेतं तेन दस्युना । चौराणामपि केषांचिच्चित्रमायतिचिन्तनम् ॥ ५० ॥ तत्स्वरूपं राजपुंसा पृष्टो ग्रामोऽब्रवीदिदम् । दुर्गचण्डोऽत्र वास्तव्यः परं ग्रामान्तरं गतः ॥ ५१ ॥ तत्रार्थे तेन विज्ञप्ते दध्यौ श्रेणिकसूरिदम् । दंभस्य सुकृतस्याहो ब्रह्माप्यन्तं न गच्छति ॥ ५२ ॥ अभयोsसज्जयदथ प्रासादं सप्तभूमिकम् । महार्घ्यरत्नखचितं विमानमिव नाकिनाम् ॥ ५३ ॥ Preseरायमाणाभी रमणीभिरलंकृतः । दिवोऽमरावतीखंडमिव भ्रष्टमतर्कि सः ॥ ५४ ॥ गन्धर्ववर्गप्रारब्य संगीतकमहोत्सवः । सोऽत्रादकस्मादुद्भूतगन्धर्वनगरश्रियम् ॥ ५५ ॥ ततोऽभयो मद्यपानमूढं चौरं विधाय तम् । परिधाप्य देवदृष्ये अधिवल्पमशाययत् ॥ २६ ॥ मदे परिणते यावदुदस्थात्तावक्षत । सोऽकस्माद्विस्मयकारीमपूर्वा दिव्यसंपदम् ॥ ५७ ॥ अन्तरेऽभयादिष्टैर्नरनारीगणैस्ततः । उदचारि जय जगन्नन्देत्यादिकमंगलम् ॥ ५८ ॥ अस्मिन्महाविमाने त्वमुत्पन्नस्त्रिदशोऽधुना । अस्माकं स्वामिभूतोऽसि त्वदीयाः किंकरा वयम् ॥ ६९ ॥ अप्सरोभिः सहैताभी रमस्व स्वैरमिन्द्रवत् । इत्यादि चतुरं चाटुगर्भमूचे स तैस्ततः ॥ ६० ॥ १ जयनंदे / || ॥ ३०५ ॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy