SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ औत्सुक्यगमनाद्गाढममं पादे स कंटकम् । अनुद्धत्य समुद्धृतुं न शशाक कमात्कमम् ॥ २२॥ नास्त्युपायोऽपरः कोऽपीत्याकृष्य श्रवणात्करम् । कर्षन कंटकमीषीदिति विश्वगुरोर्गिरम् ॥ २३ ॥ महीतलास्पर्शिपादा निर्निमेषधिलोचनाः । अम्लानमाल्या निम्वदनीरजोऽङ्गाः सुरा इति ॥ २४ ॥ बहु श्रुतमिदं धिग्धिगित्याशघृतकंटकः । पिधाय पाणिना कर्ण तथैवापससार सः ॥ २ ॥ अथान्वहं मुष्पमाणे पत्तने तेन दस्युना | उपत्य श्रेणिकं श्रेष्ठिश्रेष्ठा व्यज्ञपयन्निति ॥ २६ ॥ त्वयि शासति देवान्यन भयं द्रविणं तु नः । आकृष्य गृह्यते चौरैरदृष्टैश्चेटकैरिव ॥ २७ ॥ पन्धूनामिव तेषां तु गृहीतः पीडया ततः । सकोपाटोपमित्यूचे नृपतिर्दण्डपाशिकम् ॥ २८ ॥ किं चौरीभूय दायादीभूय चा मम वेतनम् । गृह्णासि? चौरंयन्त पदेते त्वदुपेक्षितैः ॥ २९ ॥ सोऽप्यूचे देव ! कोऽप्येष चौरः पौरान विस्लुण्यति । रोहिणेयायो धर्तुं दृष्टोऽपि न हि शक्यत ॥३०॥ विशुदुरिक्षतकरणेनोत्प्लुत्य स प्लवंगवत् । गेहाद्हं ततो वप्रमुल्लंघयति हेलया ॥ ३१ ॥ मार्गेण यामस्तन्मार्ग यावत्तावत्स नेक्ष्यते । त्यस्तो येकक्रमेणापि शतेन त्यज्यते क्रमैः ॥ ३२॥ न तं हन्तुं न वा धर्तुमहं शक्नोमि तस्करम् । गृह्णातु तदिमां देवो दाण्डपाशिकतां निजाम् ॥ ३३ ॥ नृपेणोल्लासितैकसंज्ञया भाषितस्ततः । कुमारोऽभयकुमारस्तमूचे दण्डपाशिकम् ॥ ३४ ॥ १ भम्न 1.1.|| २ "न्य कंटकम् 1 | ३ अभाल्योऽम' M. ||
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy