________________
1
2
.
॥ अथ एकादशः सर्गः ॥
.
-
.
.
.
.
.
.
.
.
.
..
इतश्च भगवान् वीरो लोकानुग्रहकाम्यया । व्यहार्षी नगरपामाकरद्रोणमुखादिषु ॥ १ ॥ इतश्च राजगृहस्य वैभारगिरिकन्दरे । चोरो लोहखुराख्योऽभूद्रोद्रो रस इवांगवान ॥२॥ स तु राजगृहे नित्यं पौराणामुत्सवादिषु । लब्ध्या छिद्राणि विदधे पिशाचवदुपद्रवम् ॥ ३ ॥ आददानस्ततो द्रव्यं भुञ्जानश्च परस्त्रियः । भांडागारं निशान्तं वा निजं मेने स तत्पुरम् ॥ ४ ॥ चौर्यमेवाभवत्तस्य प्रीत्यै वृत्तिर्न चापरा । अपास्य व्यं क्रव्यादा भक्ष्यैस्तृप्यन्ति नापरैः ॥ ५ ।। तस्यानुरूपो रूपेण चष्टया च सुमोऽभवत् । भार्यायां रोहिणीनाम्न्यां रोहिणेयोऽभिधानतः ॥ ६ ॥ स्वमृत्युसमये प्राप्त पित्राऽ5 हूयेत्यभाषि सः। यद्यवश्यं करोषि त्वमुपदेशं ददामि तत् ॥ ७ ॥ अवश्यमेव कर्तव्यमादिष्टं भवतां मया । कः पितुः पातयेदाज्ञां पृथिव्यामित्युवाच सः॥ ८॥
.
.
.-
.
-
-
.
..
-
-
-
-
१ 'खरा' || २"त्यमा ष्यत D||
॥३०१