________________
यद्यपि त्यक्तवान्नस्त्वं तथाऽपि निजदर्शनात् । आनन्दयिष्यसि दृशौ पुरेत्यासीन्मनोरथः ॥ १७४ ॥ आरम्भेणामुना पुत्र ! शरीरत्यागहेतुना । मनोरथं तमपि में भंमस्युद्यतोऽधुना ॥ १७५ ॥ प्रारब्धं यत्तपस्तत्र न ते विनी भवाम्यहम् । किं त्वेतत्कर्कशतरं शिलातलेमिनो भव ॥ १७६ ॥ अथ श्रेणिको हर्षस्थाने किं नाम रोदिषि ? । ईदृग्यस्याः सुतः स्त्रीषु सैका त्वं पुत्रवत्यसि || १७७ ॥ तत्वज्ञोऽयं महासत्त्वस्त्यस्त्वा तृणमिव श्रियम् । प्रपेदे स्वामिनः पादान् साक्षादिव परं पदम् ॥ १७८॥ असौ जगत्स्वामिशिष्यानुरूपं तप्यते तपः । मुधाऽनुतप्यते मुग्धे ! किं त्वया स्त्रीस्वभावतः ॥ १७९ ॥ भवं योषिता राज्ञा वन्दित्वा तौ महामुनी । विमनस्का निजं श्राम जगाम श्रेणिकस्तथा ॥ १८० ॥ उभौ तौ मुनीन्द्र प्रपन्नावसानौ । विमानेऽथ सर्वार्थसिद्धाभिधाने ॥ अभूतां प्रभूतप्रमोदान्धिमनौ ।
refशदध्यायुषौ देववयों ॥। १८१ ॥
इत्याचार्य श्री हेमचन्द्र विरचिते त्रिषष्टिशत्या का पुरुषचरिते महाकाव्ये इमपर्वणि दशार्णभ चरितवर्णनो नाम दशमः सर्गः ॥
१ "मित्रम् ॥
लिभद्र-धन्दक
दशमः
सर्ग:
||३००