SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ -R तदाऽऽयान्ती पुरे तस्मिन् विक्रतुं दघिसर्पिषी । शालिभद्रस्य प्राग्जन्ममाता धन्याऽभवत्पुरः ॥ १६० ॥ शालिभद्रं च सा प्रेक्ष्य संजातप्रस्रवस्तनी । वन्दित्वा चरणो भक्त्या द्वाभ्यामपि ददौ दधि ॥ १६१ ॥ श्रीवीरस्यान्निके गत्वा तदालोच्य कृताञ्जलिः। शालिभद्रोऽवदत् स्वामिन् ! मातृतः पारणं कथम् ? ॥१६॥ सर्वज्ञोऽप्याचचक्षेऽथ शालिभद्रमहामुनेः । प्रारजन्ममातरं धन्यामन्यदप्यन्यजन्मजम् ।। १६३ ॥ कृत्वा पारणकं दधाऽऽपृच्छय च स्वामिनं ततः । वैभाराद्रिं ययौ शालिभद्रो धन्यसमन्वितः ॥ १६४ ॥ शिलातले शालिभद्रः सधन्यः प्रतिलखिते। पादपोपगमं नाम नत्रानशनमाश्रयत् ॥ १६५ ॥ तदा च भद्रा तन्माता श्रेणिकश्च महीपतिः । आजग्मतुर्भक्तियुक्ती श्रीवीरचरणान्तिके ॥ १६६॥ ततो भद्राऽयदद्धन्यशालिभद्रौ कतौ मुनी। भिक्षार्थ नागतौ कस्मादस्मद्वेश्म ? जगत्पते ॥ १६७ ॥ सर्वज्ञोऽपि वभाषे तो त्वद्वेदमनि गतौ मुनी। ज्ञातौ न तु भवत्येहागमनव्यग्रचित्तया ।। १६८॥ प्राग्जन्ममाता त्वत्सनोन्या यान्ती पुरं प्रति । ददौ दधि तयोस्तेन पारणं चतुश्च ती ॥ १६॥ उभावपि महासत्वौ सत्वरौ भवमुज्झितुम् । वैभारपर्वते गत्वाऽनशनं तो प्रचऋतुः॥१७० ॥ श्रेणिकेन समं भद्रा वैभाराद्रिं ययौ ततः । तथास्थितावपश्यच्च तापमघटिताषिव ॥ १७१ ॥ तत्कष्टमय पश्यन्ती स्मरन्ती तत्सुखानि च । सारोदीद्रोदयन्तीव वैभाराद्रि प्रतिस्वनैः ॥ १७२ ॥ आयातोऽपि गृहं वत्स ! मयका स्वल्पभाग्यया । न ज्ञातोऽसि प्रमादेनाप्रसादं मा कृथा मयि ॥ १७३ ॥४॥ RRRRRRESTHA 1.००।
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy