________________
शालिभद्रोऽप्युवाचैवं पुमांसो भोगलालिताः । असहा व्रतकष्टानां कातरा एवं नेतरे ॥ १३३ ॥ त्यज भोगान् क्रमान्मममाल्यगन्धान सहस्व च । इत्यभ्यासाद् व्रतं वत्स ! गृह्णीया इत्युवाच सा॥१३४॥ शालिभद्रस्ततो भद्रावचनं प्रतिपय तत् । भार्यामेकां तूलिकां च मुञ्चति स्म दिने दिने ॥ १३५ ॥ इनश्च तस्मिन्नगरे धन्यो नाम महाधनः । अभवच्छालिभद्रस्य कनिष्ठभगिनीपतिः॥१३६ ॥ शालिभद्रस्वसा साश्रुः स्नपयन्ती च तं सदा । किं रोदिषीति तेनोक्ता जगादेति सगद्गदम् ॥ १३७ ॥ व्रतं गृहीतुं में भ्राता त्यजत्येका दिने दिने । भार्या च तूलिकां चाहं हेतुना तेन रोदिमि ॥ १३८ ॥ य एवं करुने फेरिव भी.रुस्तपस्यसौ। हीनसत्वस्तच भ्रातेत्यूचे धन्यः सनर्मकम् ।। १३९॥ सुकरं चेद् व्रतं नाथ क्रियते किं न हि स्वयम् । एवं सहासमन्याभिर्भार्याभिर्जगदेऽथ सः॥ १४॥ धन्योऽप्यूचे व्रते विघ्नो भवत्यस्ताश्च पुण्यतः। अनुमंत्र्योऽय मेऽभूवन् प्रनजिष्यामि तद् द्रुतम् ।। १४१॥ ना अप्यूचुः प्रसीदेदमस्माभिर्नर्मणोदितम् । मा स्म त्याक्षीः श्रियोऽस्मांश्च मनस्विप्नित्यलालिताः॥ १४२॥ अनित्यं स्त्रीधनाचतत्पोज्य नित्यपदेच्छया। अवश्य प्रव्रजिष्यामीत्यालपन् धन्य उत्थितः॥ १४३ ।। त्वामनु प्रवजिष्याम एवमुक्तवतीश्च ताः । अन्वमन्यत धन्योऽपि धन्यंमन्यो महामनाः ॥१४४॥ इतश्च वैभारगिरी श्रीवीरः समवासरत् । विदाञ्चकार तं सयो धन्यो धर्मसुहृद्गिरा ॥ १४ ॥ दत्तदानः सदारः सोऽप्यारुह्य शिविकां ततः । भवभीतो महावीरचरणौ शरणं ययौ ।। १४६ ॥