________________
4
40-
उम
मग
सर्वथा धन्य एवैव धन्योऽहमपि संप्रति । राज्ये यस्येदृशाः सन्ति विममशेति भूपतिः ॥ ११९ ॥ बुभुजे सपरीवारो भूभुजामग्रणीस्ततः । चित्रालंकारवस्त्राचैरार्चतश्च गृहं ययौ ॥ १२० ॥ इयेष शालिभद्रोऽपि यावत्संसारमोक्षणम् । अभ्येत्य धर्मसुहृदा विज्ञप्तस्तावदीदृशम् ॥ १२१ ॥ आगाश्चतुर्ज्ञानधरः सुरासुरनमस्कृतः । मूतों धर्म इवोद्याने धर्मघोषाभिधो मुनिः ॥ १२२ ॥ शालिभद्रस्ततो हर्षादधिरुह्य रथं ययो । आचार्यपादान वन्दित्वा साधूंश्योपाविशत्पुरः ॥ १२३ ॥ स सूरिर्देशनां कुर्वन्नत्वा तेनेत्यपृच्छ्यत । भगवन् ! कर्मणा केन प्रमुरन्यो न जायते ? ॥ १२४ ॥ भगवानप्युवाचैवं दीक्षां गृह्णन्ति ये जनाः । अशेषस्यापि जगतः स्वामिभावं भजन्ति ते ॥ १२५ ।। यवं नाथ! तद्गत्वा निजामापृच्छय मातरम् । ग्रहीष्यामि व्रतमिति शालिभद्रो व्यजिज्ञपत् ॥ १२६॥ न प्रमादो विधातव्य इत्युक्तः सुरिणा ततः । शालिभद्रो गृहं गत्वा भद्रां नत्वेत्यभाषत ॥ १२७ ॥ धर्मः श्रीधर्मघोषस्य सूरेरण्य मुखाम्वुजात् । विश्वदुःखविमोक्षस्पोपायभूतो मया श्रुतः ॥ १२८ ॥ अकार्षीः साध्वि वत्स ! पितुस्तस्यासि नन्दनः । प्रशशंसेति भद्राऽपि शालिभद्रं प्रमोदतः ॥ १२ ॥ सोऽप्यवोचदिदं मातरेवं चेत्तत्प्रसीद मे । ग्रहीष्यामि व्रतमहं ननु तस्य पितुः सुतः ॥ १३० ॥ साऽप्यवोचदिदं वत्स ! युक्तस्तेऽसौ व्रतोद्यमः। किं त्वत्र लोहचणकाचर्षणीया निरन्तरम् ॥ १३१ ॥ सुकुमारः प्रकृत्याऽपि दिप गैश्च लालितः । स्यन्दनं तर्णक इव कथं त्वं वक्ष्यसि व्रतम् ॥ १३२ ॥