________________
अम्ब ! त्वमेव यं वेत्सि तमथ कारय स्वयम् । किं मया तत्र कर्तव्यं स भद्रामित्यवोचत || १०० ॥ ततो भद्रवतव्यं वस्तु न ह्यदः । किं त्वसौ सर्वलोकानां युष्माकमपि च प्रभुः ॥ १०६ ॥ तच्छ्रुत्वा शालिभद्रोऽपि सविषादमचिन्तयत् । धिक् सांसारिकमैश्वर्यं यन्ममाप्यपरः प्रभुः ॥ १०७ ॥ भोग भोगैरिभिर्मे भौगैरलमतः परम् । दीक्षां मंक्षु ग्रहीष्यामि श्रीवीरचरणान्तिके ॥ १०८ ॥ एवं संवेगयुक्तोऽपि स मातुरुपरोधतः । सभार्योऽभ्येत्य राजानमनमद्विनयान्वितः ॥ १०९ ॥ सस्वजे श्रेणिकनाये स्वांक सुत इवाऽऽसितः । स्नेहाच्छिरसि चाऽऽघातः क्षणादश्रूणि सोऽमुचत् ॥ ११० ॥ ततो भद्रा जगादेवं देवायं मुच्यतां यतः । मनुष्यमाल्यगन्धेन मानुषोऽप्येष बाध्यते ॥ १११ ॥ देवभूयं गतः श्रेष्ठी सभार्यस्यास्य यच्छति । दिव्यनेपथ्यवस्त्रांगरागादीन् प्रतिवासरम् ॥ ११२ ॥ ततो राज्ञा विसृष्टः स ययौ सप्तमभूमिकाम् । इहैव भोक्तव्यमिति विज्ञप्तो भद्रया नृपः ॥ ११३ ॥ भद्रादाक्षिण्यतो राजा प्रत्यपद्यत तत्तथा । सद्यः साऽसाधयत्सर्वं श्रीमनां किं न सिध्यति ? ॥ ११४ ॥ सस्तौ नानीयतैलाम्बुचूर्णस्तूर्णं ततो नृपः । अंगुलीयं तदंगुल्या गृहवाप्यां पपात च ॥ ११५ ॥ यावदन्वेषयामास भूपतिस्तदितस्ततः । तावद्भद्राऽऽदिशद्दासीं वाप्यम्भोऽन्यत्र नाय्यताम् ॥ ११६ ॥ तथा कृते तया चित्रदिव्याभरणमध्यगम् | अंगाराभं स्वांगुलीयं दृष्ट्वा राजा विसिष्मिये ॥ ११७ ॥ किमेतदिति राझोता दास्यवोचदिहान्वहम् । निर्माल्यं शालिभद्रस्य सभार्यस्य निधीयते ॥ ११८ ॥
।। २९५ ।।