________________
5 राज्ञाऽप्यथैकं मूल्येन कम्बलं वणिजोऽर्थिताः । भद्रा जग्राह तान् सर्वान् कम्बलानिति तवदन् ॥ ९१ ॥ श्रेणिकः प्राहिणोदेकं प्रवीणं पुरुषं ततः । भद्रापार्श्वे मूल्यदानात् कम्बलादानहेतवे ॥ ९२ ॥ याचिता तेन भद्रोचे छित्त्वा तान् रत्नकम्बलान् । शालिभद्रप्रियापादपोंछनीकृतवत्यहम् ॥ ९३ ॥ कार्यं निष्पद्यते किंचिजीर्णैश्चेद्रन कम्बलैः । तद्वत्वाऽऽपृच्छ्य राजानमागच्छामून् गृहाण प || ९४ ॥ आख्यत्वा स तद्राने राजां च रीरिनोरिवान्तरम् ॥ ९५ ॥ तमेव पुरुषं प्रेष्य श्रेणिकेन कुतूहलात् । आकारिते शालिभद्रे भद्रोपेत्य व्यजिज्ञपत् ॥ ९६ ॥
हि महीनाथ ! जातु याति मदात्मजः । प्रसादः क्रियतां देव ! तद् गृहागमनेन मे ॥ ९७ ॥ कौतूहलाच्छ्रेणिकोऽपि तत्तथा प्रत्यपद्यत । तं च क्षणं प्रतीक्ष्याथ साऽग्रे भूत्वा गृहं ययौ ॥ ९८ ॥ विधिश्रवस्त्रमाणिक्यचित्रकत्वङमय ततः । आराजहर्म्यं स्वगृहाददृशोभां व्यधन्त सा ॥ १९ ॥ तयाऽऽहूतस्ततो राजा कृतां सः सुरैरिव । विभावयन् हृहशोभां शालिभद्रगृहं ययौ ॥ १०० ॥ स्वस्तम्भोपरि प्रखदिन्द्रनीलाइमतोरणम् । मौक्तिकस्वस्तिकश्रणिदन्तुरद्वार भूतलम् ॥ १०१ ॥ दिव्यवस्त्रकृतोल्लोचं सुगन्धिद्रव्यधूपितम् । भुवि दिव्यविमानानां प्रतिमानमिवस्थितम् ॥ १०२ ॥ द्विवेश विशामीशो विस्मयस्मेरलोचनः । भूमिकायां चतुर्थ्यां च सिंहासन उपाविशत् ॥ १०३ ॥ सप्तम्यां भुवि भद्रेत्वा शालिभद्रमभाषत । इहायातः श्रेणिकोऽस्ति तं द्रष्टुं क्षणमेहि तत् ॥ १०४ ॥
'दशम:
सर्ग:
।।। २९४ ॥