SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ दृष्टस्वमानुसारेण सूनोस्तस्य शुभे दिने । चक्रतुः पितरौ शालिभद्र इत्यभिधां शुभाम् ।। ७७ ॥ पाल्यमानः स धात्रीभिः पंचभिर्ववृधे क्रमात । किंचिदनाष्टवर्षः मन पिमाणगापितः कलाः ॥ ७८ संप्राप्तयौवनः सोऽथ युवतीजनवल्लभः। सवयोभिः समं रेमे प्रद्युम्न इव नूतनः ॥ ७॥ नत्पुरश्रेष्ठिनोऽथैत्य कन्या द्वात्रिंशतं निजाः । प्रदातुं शालिभद्राय भद्रानाथं ययाचिरे ॥ ८॥ अथ प्रहृष्टो गोभद्रः शालिभद्रेण सादरम् । सर्वलक्षणसंपूर्णाः कन्यकाः पर्यणाययत् ॥ ८१ ॥ शालिभद्रस्ततो रम्ये विमान इव मन्दिरे । विललास समं ताभिः पतिर्दिविषदामिव ॥ ८२॥ स विवदाऽऽन्दमम्रो न रात्रिं न च वासरम् । तस्यापूरयतां भोगसामग्री पितरौ स्वयम् ।। ८३ ॥ श्रीवीरपादमूलेऽथ गोभद्रो व्रतमग्रहीत् । विधिनाऽनशनं कृत्वा देवलोकं जगाम च ॥ ८४ ॥ अवधिज्ञानतो ज्ञात्वा शालिभद्रं निजात्मजम् । तत्पुण्याऽवर्जितः सोऽभूत् पुत्रवात्सल्यतत्परः ॥८५।। दिव्यानि घस्रनेपथ्यादीनि तस्यानुवासरम् । सभार्यस्यार्पयामास कल्पशाखीच सोऽमरः ॥ ८६ ॥ यअन्मोचित कार्य भद्रा तत्तदसाधयत् । पूर्वदानप्रभावण भोगान् सोऽभुंक्त केवलम् ॥ ८॥ वणिग्भिः कैश्चिदन्येयुर्गृहीत्वा रत्नकम्बलान् । शिश्रिये श्रेणिकस्तांश्च महात्वन नाग्रहीत् ॥ ८८॥ ततस्ते वणिजो जग्मुः शालिभद्रनिकेतनम् । तदुक्तार्पण तान् भद्राऽप्यग्रहीद्रनकम्बलान् ॥ ८९ ।। मयोग्यो गृह्यतामेको महामूल्योऽपि कम्बलः । इत्यूचे चेलणादेव्या तदा च श्रेणिको नृपः ॥१०॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy