SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ चन्दिवृन्दैः स्तूयमानो गीयमानश्च गायनैः । दर्यमानस्वविज्ञानो मार्गालंकारकारिभिः ॥ २३ ॥ निरन्तरैर्नृपच्छत्रैर्भवन्नूननमंडपः । क्रमेण माप समवसरणं स महीपतिः ॥ २४ ॥ स त्रिः प्रदक्षिणीकृत्य ववन्दे परमेश्वरम् । आसांचके यथास्थानं चाऽऽस्थाने ऋद्धिगर्वितः ।। २५॥ तस्पर्द्धिगर्व विज्ञाय तत्प्रबोधनहेतवे । अम्भोमयं विकृतवान् विमानं पाकशासनः ॥ २६ ॥ स्फटिकाच्छजलपान्तविकटाम्भोजरसुन्दरम् । परालसामान लिम्वादप्तमाकुलम् ॥२७॥ सुरद्रुमलताश्रेणिपतत्कुसुमशोभितम् । नीलोत्पलै राजमानमिन्द्रनीलमणीमयैः ॥ २८ ॥ नलिनीषु भरकतमयीषु परिवर्तिभिः। विभ्राजमानमधिकं स्वणाम्भोजैविक्रस्वरैः ॥ २९ ॥ लोलकल्लोलमालाभिः पनाकामालभारिणम् । जलकान्तविमानं तं शक्रोऽश्यास्त सुरैः सह ॥ ३० ॥ (चतुर्भिः कलापकम्) चामरैरमरस्त्रीभिर्वीज्यमानः सहस्रशः । गन्धर्वारब्धसंगीतदत्तकर्णी मनाग्मनाक् ।। ३१॥ स्वामिपादपवित्रायां दत्तदृष्टिरधो भुवि । मर्त्यलोकमवातारीदमाधिपतिस्ततः ॥ ३२ ॥ (युग्मम् ) नालेन मारकतेन राजितेष्वम्बुजन्मसु । सौवर्णेषु न्यस्तपाद सपादमिव पर्वतम् ।। ३३ ॥ मणीमयदन्तकोशैर्दन्तरष्टभिरूर्जितम् । देवदृष्यच्छन्नपृष्ठं प्रष्ठं त्रिदशवन्तिनाम् ॥ ३४ ॥ | ॥२८९॥ १ प्रष्ट I.D| पृष्टी C||
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy