________________
नवमः
भस्मांगरागः खट्वांगी शूलपाणिः पिनाकभृत् । कपाली रुंडमाली च नानागणसमावृतः ॥२८६ ॥ आख्यद्धर्म हरो भूत्वा पौराणां च मनोहरत । परमश्राविका सा तु तं द्रष्टमपि नाययौ ॥ २८७ ॥ चतुर्थेऽहन्युत्तरस्यां स वप्रत्रयशोभितम् । दिव्यं समवसरणं विचके स्फारतोरणम् ॥ २८८ ॥ स्थितं तत्र जिनीभूय श्रुत्वा पौरा विशेषतः । ऋद्धया महत्याऽभ्ययुस्तं ततो धर्म च शुश्रुवुः ॥ २८ ॥ एवं सत्यप्यनायातां सुलसामबडोऽथ ताम् । कंचित् क्षोभयितुं प्रेषीगत्वा सोऽपीत्यवोचत ॥ २१ ॥ सुलसे ! समयमृतो विश्वस्वामी सिन्नरः । ताहि भो ! तास यान् वनितुं किं विलंबसे १ ॥ २९१ ॥ सुलसाऽपि धभाषे तं न खल्वेष जगद्गुरुः । भगवान् श्रीमहावीरश्चतुर्विंशो जिनेश्वरः ।। २९२ ।। सोऽपि च प्रत्युवाचैवं मुग्धे ! नन्वेष वर्तते । पंचर्षिशस्तीर्थकरः प्रत्यक्षमपि वीश्यताम् ॥ २९.३ ॥ सुलसाऽप्यब्रवीज्जातु पंचविंशो जिनो न हि । अयं कार्पटिकः कोऽपि लोकं वश्चयते कुधीः ॥ २९४ ।। सोऽप्यूच मा कृथा भेदं शासनस्थ प्रभावना । भद्रे ! भवत्येहि तत्र का ते हानिर्भविष्यति ? ॥ २५ ॥ अवदत्सुलसाऽप्येवं शासनस्य प्रभावना । नैवं भवत्यलीकेन किं त्वपभ्राजनैव हि ॥ २० ॥ अचालितामेवमपि निरीक्ष्य सुलसां स्थिराम् । अंबडश्चिन्तयामास संजातप्रत्ययो हृदि ॥ २९७ ॥
१"मम्मडों C.I..|| २ अम्मCL.L
॥२८४