SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ *** *** * सत्र नागरधिपत्न्याः सुलसायास्त्वमादरात् । प्रवृत्तिमस्मदादेशात् पृच्छे पेशलया गिरा ॥ २७४ ।। इच्छामीति भणित्वा स व्योम्ना राजगृहं ययौ । सुलसाया गृहद्वारे स्थित्वा चैवमचिन्तयत् ॥ २७ ॥ सुरासुरनरेन्द्राणां पश्यतां त्रिजगत्पतिः। सुलसापक्षपाती किं ? करिष्ये तत्परीक्षणम् ॥ २७६ ॥ कृत्वा रूपान्तरं सोऽथ जातवैक्रियलब्धिकः । प्रविश्य सुलसागहे सुधीभिक्षामयाचत ॥ २७७ ।। पात्राय साधये भिक्षां ददामीति कृताश्रवा । याचमामायापि तस्मै सुलसा न ददौ तदा ।। २७८ ॥ ततश्च निःमृत्य पुराद् द्वारि प्राग्गोपुरस्य सः । विकृत्य ब्रह्मणो रूपमवतस्थे समाहितः ।। २७ ।। पद्मासनसमासीनश्चतुर्याहुश्चतुर्मुखः। ब्रह्मसूत्र्यक्षसूत्री च जटामुकुटमण्डितः ।। २८० ॥ सावित्रीसंयुतो हंसयानो धर्म दिदेश सः। पौराणां च मनोऽहार्षीत् साक्षाद्ब्रह्मेति मानिनाम् ॥ २८१ ॥ बहिरस्ति स्वयं ब्रह्मत्याहूताऽपि सखीजनैः । न ययौ सुलसा मिथ्यादृष्टिसंस्तवकातरा ॥ २८२ ॥ अम्बडश्च द्वितीयेऽहि याम्यायां गरुडासनः । शंखचक्रगदाशाङ्गौ तस्थौ गोविन्दरूपभृत् ॥ २८ ॥ अपि विष्णुप्रवादेन लोकव्यामोहकारिणा । नाऽऽययौ सुलसा तत्र सम्यग्दर्शननिश्चला ॥ २८४ ॥ अंबडोऽथ तृतीयेऽहि वारुण्यां वृषवाहनः । चन्द्रचूडो युतो गौर्या कृत्तिवासास्त्रिलोचनः ॥ २८ ॥ * * १ अम्मा L अम्मा C॥२ अम्महो ...|| २८
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy