________________
I
गौतमस्य प्रयोधार्थमन्येषां चानुशिष्टये । व्याकरोद् द्रुमपश्रीयाध्ययनं परमेश्वरः ॥ २६९ ॥ अत्रान्तरे जगद्भर्तुश्वरणोपासकः परः । परिवार्डडस्तत्राययौ छत्री त्रिदंडभृत् ॥ २६२ ॥ स त्रिः प्रदक्षिणीकृत्य प्रणम्य च जिनेश्वरम् । रोमाञ्चितयपुर्भक्त्या रचिताञ्जलिरस्तवीत् ॥ २६३ ॥ तब चेतसि वर्तेऽहमिति वार्ताऽपि दुर्लभा । मदिते वर्तसे त्वमलमन्येन केनचित् ॥ २६४ ॥ निगृह्य कोपतः कांश्चित् कांश्रित्तुष्टयाऽनुगृह्य च । प्रतार्यन्ते मृदुधियः प्रलम्भनपरैः परैः ॥ २६५ ॥ अप्रसन्नात् कथं प्राप्यं फलमेतदसंगतम् । चिन्तामण्यादयः किं न फलन्त्यपि विचेतना: १ ॥ २६६ ॥ वीतरागसपेर्याभिः तवाज्ञापालनं परम् । आज्ञाऽऽराद्वा विराद्धा च शिवाय च भवाय च ॥ २६७ ॥ आकालमियमाज्ञा ते हेयोपादेयगोचरा । आश्रयः सर्वधा हेय उपादेयश्च संवरः ॥ २६८ ॥ आश्रवो भवहेतुः स्यात्संवरो मोक्षकारणम् । इतीयमानी मुष्टिरन्यदस्याः प्रपंचनम् ॥ २६९ ॥ इत्याज्ञाराधनपरा अनन्ताः परिनिर्वृताः । निर्वान्ति चान्ये वचन निर्वास्यन्ति तथाऽपरे ॥ २५० ॥ हित्वा प्रसादना दैन्यमेकयैव त्वदाज्ञया । सर्वथैव विमुच्यन्ते जन्मिनः कर्मपञ्जरात् ॥ २७९ ॥ एवं जगद्गुरुं स्तुत्वा यथास्थानं निषद्य च । देशनां स्वामिनोऽश्रौषीत् स्ववसीवानिमेषहरू ॥ २७२ ॥ देशनान्ते प्रभुं नत्वा यावद्राजगृहं प्रति । अचालीदंगडस्तावदित्यूचे स्वामिना स्वयम् ॥ २७३ ॥ १ डम्म ८८ ॥ २ "पर्यापत पर्यान्त' D ॥
नवमः
सर्गः
॥ २८२॥