________________
इत्युदित्वा पुंडरीकः कंडरीकं तदर्धिते । राज्ये निवेशयामास राज्यविह्नानि श्रायत् ॥ २२३ ॥ पुंडरीकन्नृपस्तस्माद्यतिलिंगान्युपाददे । स्वयमात्तपरिव्रज्यः शुद्धधीर्व्यहरत्ततः ॥ २२४ ॥ भवनः कृशो रंक इवान्नार्थीति सेत्रकैः । हस्यमानः कंडरीकश्चुकोप हृदयेऽधिकम् ॥ २२५ ॥ भुञ्जेऽहं प्रथमं तावत्पश्चादेषां प्रहासिनाम् । करिष्यामि वचादीति चिन्तयन् स गृहे ययौ ॥ २२६ ॥ जधन्यमध्यमोत्कृष्टस्त्रिधाऽऽहारो यदृच्छया । प्रातः कपोतयूनंव तेनाकण्ठमभुज्यत ॥ २२७ ॥ भोगजागरणाद्राश्रावत्याहाराच्च दुर्जरात् । जज्ञे विसूचिका तस्य महत्यरतिरप्यभूत् ॥ २२८ ॥ उत्फुल्लमुदरं तस्य भस्त्रेवानिलपूरिता । निरुद्धः पवनस्तृष्णादाहश्च समभून्महान् ॥ २२९ ॥ भ्रष्टप्रतिज्ञः पापोऽसाविति ध्यात्वा नियोगिभिः । अकारितचिकित्सोऽथ सोऽर्तिमानित्य चिन्तयत् ||२३०|| कथंचिद्यद्य रात्रिमत्येष्यामि तदा प्रगे । सकुटुम्बात् हनिष्यामि सर्वांनेनान्नियोगिनः ॥ २३९ ॥ एवं च कृष्णले श्यावान् रौद्रध्यानी व्यपादि सः । उदपाद्यप्रतिष्ठाने नारकः सप्तमावनौ ।। २३२ ॥ चिरेष्ट लब्ध यो धर्मस्तं गुरुसाक्षिकम् । करोमीति पुंडरीकोऽप्यचालीत् सद्गुरुं प्रति ।। २३३ ॥ समीपे सुगुरोर्गत्वा पुनरादाय स व्रतम् । पारणामष्टमस्यान्ते पुंडरीकमुनिर्व्यधात् ॥ २३४ ॥ अतिवेलैः शीतरूक्षैराहारैः पीडितो मृदुः । भूचारविगलत्पादासृगुद्द्भुत परिश्रमः || २३५ ।। १ [र्थिनं / ॥ २ स गुरुं D || ३ नास्ति अयं श्लोक: C D L इत्यत्र ||
I
॥ २७९ ॥