________________
ततो द्विस्त्रिश्च राज्यार्थे राज्ञोक्त नाकरोदा । तदा बनेऽनुजज्ञे स शिष्टचैवं हितैषिणा ।। २१० ॥ दुर्जयानीन्द्रियाणीह चंचलं न सदा मनः । विकारधाम तारुण्यं प्रमादः सहजो नृणाम् ॥ २११ ॥ परीषहोपसर्गाश्च दुःसहा वत्स तत्त्वया । भाव्यं दृढप्रतिज्ञेन प्रब्रज्या दुष्करा खलु ॥ २१२ ॥ यदि वा श्रावकधर्मे राज्यं च परिपालय । अतीने यौवने दीक्षामाददीधास्तदोचिताम् ॥ २१३ ॥ कंडोsप्युवाचैवं सत्यमेतत्तथापि हि । प्रजल्पितं विधातव्यं प्रवजिष्यामि निश्चितम् ॥ २१४ ॥ प्रात्राजीत् कंडरीकोऽथ पुंडरीकस्तु भूपतिः । व्रतान्निषिद्धः सचिवैस्तस्थौ भावयतिगृहे ॥ २१५ ॥ isease धैस्तपोभिः क्लिष्टविग्रहः । सामाचारीपालनतः साधूनामभवत् प्रियः ॥ २१६ ॥ वसन्तसमयेऽन्येयुजृम्भमाणे मनोऽचलत् । महर्षेः कंडरीकस्य चारित्रावरणोदयात् ॥ २१७ ॥ अचिन्तयच्च पर्याप्तं मम प्रब्रज्ययाऽनया । गत्वा राज्यमुपादास्ये भ्रात्रा दत्तं पुराऽपि यत् ।। २१८ ॥ हत्यागात्पुंडरीकियां स्थित्वाद्याने तरौ कचित् । पात्राचालम्भ्य हरितस्रस्तरे शीतलेऽलुटत् ॥ २१९ ॥ उद्यानपालेनाऽऽत्मानं स राज्ञेऽज्ञापयद् द्रुतम् । सप्रधानो नृपस्तत्राभ्यागत्य तमवन्दत ॥ २२० ॥ वृक्षबद्धोपकरणो हरित्कायस्थ एककः । मन्येऽसौ व्रतनिर्विषेण इति ज्ञात्वाऽब्रवीनृपः ॥ २२९ ॥ भो ! भोः ! सर्व स्मरथ किं यन्मे वारयतोऽमुना । तथा गृहीतं श्रामण्यं बालेन रभसावशात् ॥ २२२ ॥
नत्रमः
सर्गः
॥२७८