SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ निर्गत्य गौतमश्चैत्यात्तलेऽशोकमहातरोः । उपाविशद्वन्धमान समारनभनौः ॥ ११६॥ चक्रे च गौतमस्तेषां यथाई धर्मदेशनाम । संदेहांवादित प्रस्तावित केवलीति तः॥१०॥ देशनां कुर्वता तेन प्रस्तावादिदमौच्यत । अस्थिधर्मावशिष्टांगाः किडिस्किडितसंधयः ॥ १९८ ॥ ग्लानिभाजो ब्रुवन्तोऽपि जीवसत्वेन गामिमः । तपोभिरुगैरीक्षा भवन्ति खलु साधवः ।। १९९ ॥ तत्तु श्रुत्वा वैश्रवणस्तस्य शैल्यं विभावयन् । स्वस्मिन्नपि विसंवादि वचोऽस्येत्यहसन्मनाक् ॥ २० ॥ इन्द्रभूतिमनोज्ञानी ज्ञात्वा तद्भावमब्रवीत् । नांगकार्य प्रमाणं स्यात् किं त्वहो ध्याननिग्रहः ॥ २०१ ॥ नयाहि जम्बूद्वीपेऽस्मिन्महाविदेहभूषणे । विजये पुष्कलावत्यामस्ति पू: पुंडरीकिणी ॥ २०२ ।। महापद्मो नृपस्तत्र तस्य पध्मावती प्रिया । पुंडरीककंडरीको तयोः पुत्रौ बभूवतुः ।। २०३ ॥ अन्यदा नलिनवनोपवने समुपेयुषाम् । साधूनां सन्निधौ धर्म महापद्मन्नृपोऽशृणोत् ॥ २०४ ॥ न्यस्य राज्ये पुंडरीकं महापद्मोऽग्रहीद् व्रतम् । उत्पन्न केवलः कर्मक्षयान्मोक्षमगात् क्रमात् ॥ २०५ ।। साधवः पुंडरीकियां तेऽन्यदा पुनराययुः। पुंडरीककंडरीको धर्म शुश्रुवतुस्ततः ॥ २०६ ॥ नत्र भावयतिर्भूत्या पुंडरीको गृहं ययौ । समक्षं मंत्रिणां चैवं कंडरीकमभाषत ॥ २०७ ॥ ३६ वत्म! समादत्स्व राज्यं पैतृकमुच्चकैः । भवानीतो ग्रहीष्यामि दीक्षां तड्यरक्षिणीम् ॥ २०८ ।। प्रत्यूचे कंडरीकोऽपि किं पातयसि मां भवे ? । तदहं पत्रजिष्यामि तरिष्यामि भवार्णवम् ॥ २० ॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy