________________
कालान्तरेण विहरन् भगवान् सपरिच्छदः । चतुस्त्रिंशदतिशयो ययौ चम्पां महापुरीम् ॥ १७० ॥ स्वामिनोऽनुज्ञया साल महासालर्षिसंयुतः । ततः पुरीं पृष्ठचम्पां गौतम गणधयरे ॥ १७१ ॥ ववन्दे गौतमं तत्र भक्तितो गागलिर्नृपः । तन्मातापितरावन्ये पौरामात्यादयोऽपि च ॥ १७२ ॥ तत्रासीनः सुरकृते सौवर्णे कमलासने । इन्द्रभूतिश्चतुर्ज्ञानो विदधे धर्मदेशनाम् ॥ १७३ ॥ गांगलि: प्रतिबुद्धज्य राज्ये न्यस्य निजे सुतम् । दीक्षां गौतमपादान्ते पितृभ्यां सममाददे || १७४ ॥ स तैस्त्रिभिः सालमहासालाभ्यां च समावृतः । चचाल गौतममुनिश्वम्पायां वन्दितुं प्रभुम् ॥ १७५ ॥ अनुगौतममायातां पंचानामपि वर्त्मनि । शुभभाववशात्तेषामुदपद्यत केवलम् ॥ १७६ ॥ प्राप्ताः संवsपि चाय पुर्यां तत्र जिनेश्वरम् । ते प्रदक्षिणयामासुः प्रणनाम तु गौतमः ॥ १७७ ॥ तीर्थ नत्वाऽथ ते पंच बेलुः केवलिपर्षदि । तानूचे गौतमो हन्त वन्दध्वं परमेश्वरम् ॥ १७८ ॥ वायूचे गौतम! मा केवल्याशातनां कृथाः । गौतमोऽप्यक्षमत्तान्मिथ्यादुष्कृतपूर्वकम् ॥ १७९ ॥ खिन्नोऽथ गौतमो दध्यौ न किमुत्पत्स्यते मम । केवलज्ञानमिह च भवे सेत्स्यामि किं न हि ? ॥ १८० ॥ योऽष्टापदे जिनान्नत्वा वसेद्रात्रिं स सिध्यति । भवेऽचैवेत्यर्हदुक्तं वक्तून् सोऽथास्मरत्सुरान् ॥ १८९ ॥ देवतावाक्प्रत्ययेन तदानीं गौतमो मुनिः । इयेषाष्टापदं गन्तुं तीर्थद्वन्द नाकृते ॥ १८२ ॥
Cart / 11
+6
॥ २७६ ॥